पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमैतम् । .

दक्षिणतो वीणागणकिन उपसन्ना भवन्ति ॥ १३ ॥

पोपविशन्ति ॥ १३॥

समुपविष्टेष्वध्वर्यो३ इति होताऽध्वर्युमामन्त्रयते ॥१४॥

सर्वेषूपविष्टेष्वध्वर्यो३ इति होताऽध्वर्यु प्रत्यामन्त्रयते ॥ १४

पारिप्लवमाख्यास्यन् भौवन्यवं च हो३ इह होतरित्यध्वर्युः परिगृणाति ॥ १५॥

हो३ होतरिति प्रतिगरः ॥ १५ ॥

समाप्ते पारिप्लवे भौवन्यवे च वीणागणकिनः पुराणैरिमꣳ राजभिः ॥ (ख ०४) ॥ साधुकृद्भिर्यजमानꣳ संगायतेति संप्रेष्यति । एवꣳ सदा संप्रेष्यति ॥ १६ ॥

संस्थितयोराख्यातयोः संप्रेष्यति वीणागणार्किन इति युधिष्ठिरादिभिस्तुल्यमिति कृत्वमं मंगायतेति । एवमुक्तप्रकारेण संप्रेषः ॥ १६ ॥

सायंधृतिषु हूयमानासु इत्यजिना इत्ययुध्यथा इत्यमुꣳ संग्राममहन्नित्यहो वीर्यमकरोदिति राजन्यो वीणागाथी गायति ॥ १७ ॥

धृतिषु हूयमानांसु राजन्यो वीणागाथी इत्यजिना मांधात्रादिभिस्तुल्य एवं बाधुनिसवान् युद्धं कृतवान् संग्राम कृतवान् इत्यादि ॥ १७ ॥

नित्यꣳ सायꣳ सायंधृतीर्जुहोति । प्रातः प्रातरिष्टिभिर्यजते । नित्यं पारिप्लवं भौवन्यवं च नित्यम् । वीणागणकिनौ ब्राह्मणराजन्यावेष्टीनामपवर्गाद्गायतोऽप वृत्तास्विष्टिषु ताभ्याꣳ शतमनोयुक्तं च ददाति । शते चानोयुक्ते चेत्येकेषाम् ॥ १८॥

नित्यमिति वचनादहरहः सायं प्राततिहोमादि । एवमैतानि सावित्रादीमि संवत्सरं कर्माणि क्रियन्ते (आप० श्री० २०-७-२) इत्यापस्तम्बोक्तिः । संवत्सरमित्यत्यन्तसंयोगे द्वितीया, इति वचनात्संवत्सरपर्यन्तमित्यर्थः । अपवृत्तास्विष्टिषु ताम्यां वीणागाथिभ्यां शतमनोयुक्तं रथं च दद्यात् । शते चानोयुक्ते चेत्येके शांतिषः पठन्ति ॥ १८ ॥ ___