२२० सत्यापाडविरचितं श्रौतसूत्रम्- [१४ अथे
विपरीतमेके समामनन्ति ॥ ४॥ हिरण्यꣳ शतमानं दक्षिणा ॥ ५॥
पुरस्तात्स्विष्टकृत इत्युपहोमस्य कालचोदनात्, आयनाय स्वाहा प्रायणाय स्वाहे. त्यद्रावा होतीत्यापस्तम्बः। ईकाराय स्वाहेत्यनुवाकेन प्रतिमन्त्रम् । अज्येताय स्वाहा . कृष्णाय स्वाहा, इत्यष्टाचत्वारिंशतमेकमतिरिक्तं सर्वस्मै स्व हेति । दक्षिणाकाले शतमानं हिरण्यम् ॥ ३ ॥ ४ ॥५॥
तस्याꣳ सꣳस्थितायामित्यददा इत्ययजथा इत्यपच इत्यदः साध्वकरोदिति ब्राह्मणौ वीणागथिनौ गायतः॥६॥
तस्यां प्रातरिष्ट्या ब्राह्मणतर्पणान्तायां समाप्तायामत्र ब्राह्मणो वीणागाथी गायतिइत्यददा इति नित्यशो बारणेभ्यो भुम्यादि दान( दत्त )वान् । इत्ययजथा बाजपेयराजसूयादिभिरिष्टवान् । इत्यपचः हरिणादिमांसादि पक्वान् । इत्यदः साध्वकरोदिति । शास्त्रमनुसृत्य सन्मार्गमकरोदित्येवं गायतौ वीणागःथिनौ ॥ ६ ॥
सवित्रे प्रसवित्रे मध्यंदिन एकादशकपालः। रजतꣳ शतमानं दक्षिणा ॥ ७ ॥
माध्यदिनेष्टया यक्ष्य इत्यादि सवित्रे प्रसवित्रे जुष्टमित्यादि ब्राह्मणतर्पणान्तम् ॥ ७ ॥
सवित्र आसवित्रेऽपराह्णे द्वादशकपालः । सुवर्णꣳ शतमानं दक्षिणा ॥८॥
ब्राह्मणतर्पणान्तेयमिष्टिः॥
तस्याꣳ सꣳस्थितायां दक्षिणेन वेदिꣳ हिरण्मयं कशिपूपस्तृणाति । तस्मिन्होतोपविशति ॥ ९ ॥
आद्यायामेवोद्रावहोमादिगानान्तं संस्थितायामापराह्निक्यामिष्टौ दक्षिणेनाऽऽहवूनीयमित्यादि ॥ ९॥
दक्षिणतो ब्रह्मोद्गातारौ ॥ १४.२.१० ॥
तस्मिन्नुपविशत इति शेषः ॥ १०॥
हिरण्यकशिपोरग्रेण होतारम् ॥ ११ ॥
दक्षिणेनाऽऽहवनीयं होता हिरण्यकशिपावुपविशतील्यापस्तम्बः ॥ ११ ॥
हिरण्मये कूर्चे फलके वाऽध्वर्युः ॥ १२ ॥
उपविशतीति शेषः । पुरस्तादध्वयोंहेरण्ये कूर्च इत्यापनम्बः ॥ १२ ॥