पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ सत्यापाढविरचितं श्रौतसूत्रम्- - १४ प्रभेसिनः । वैश्या (विपणिनः ) विपथिनः पन्थानमतिक्रम्याश्वस्य पार्श्वयोर्गच्छन्ति । ये शूद्रा वरूथिनः गृहगामिनोऽश्वस्य यवसमाहरन्ति एतेऽश्वस्य गोप्तार इति ॥ ४ ॥

यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वेत्थेति । यो न विद्यात्तं जित्वा तस्य कुलात्खादं पानं चोपनिवपेयुः ॥४७॥

यद्यद्ब्राह्मणजातमुपेयुरुपगच्छेयुस्तत्पृच्छेयुः कियद्भवानश्वमेधस्य जानाति मन्त्र ब्राह्मणं कल्पं वेति । यदि न किंचिज्जानाति तं जित्वा तस्य गृहाद्भक्षणमश्वस्य खादं चणकादि पानीयं नयेयुः ॥ १७ ॥

यज्जनपदेऽन्नं तदेषामन्नन् । रथकारकुले वसति ॥ (ख०३) ॥ ४८॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने प्रथमः पटलः ।

यद्राह्मणानां कृतान्नं तदेषामन्नम् ( आप० श्री० २०-६-१७) इत्यापस्तम्बः । न तु क्षत्रियवैश्यानामन्नमितरेषां च भक्षणं भवति । सायंकाले स्थकारगृहेऽश्वस्य वासो भवति । आहूते सुब्रह्मण्येऽत्र समायाते शचीपतौ। पदातितैव युक्तेति प्रागेवाऽऽनयनं कृतम् ॥ रशनाञ्जनतः पश्चादध्वयु परिदापयेत् । ...... राज्याय स च राजा स्याद्यायत्संतिष्ठते क्रतुः ॥ आनयन्ति ततः श्वानं यजमानस्य पूरुषाः ।। विष्वग्बन्धेन बद्धाङ्गं चतुरक्षं विवक्षितम् ॥ अक्ष्णोरुपार यः श्वेतबिन्दुद्वितयलान्छितः । ते समाचक्षते श्वानं चतुरक्षं विचक्षणाः ॥ सैधक मुसलं हस्ते गृह्णन्दासीसुतस्ततः । सौवर्णावृतजानुस्तु पृष्ठतोऽश्वमनुवजेत् ॥ प्रवेशयन्त्यश्वमथाप्सु मुञ्चन् श्वानं जले यत्र शुनोऽप्रतिष्ठा । अध्वर्युणाऽय प्रसुतो जहीति स पौंश्चलेयोऽस्य शुनः प्रहन्ति ।। १ कियथ्यमश्वमेधस्य।