पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] : महादेवशास्त्रिसंकालतप्रयोगचन्द्रिकाव्याख्यासमेतम् । २१७ ।

.अग्नये स्वाहा (ते. सं० ७-१-१५) इत्यनुवाकास्त्रय आम्नाताः । तत्र मध्यमा सुधाके पठिता एकादश मन्त्राः । तत्रान्तिमः 'सर्वम्मै स्वाहा ' इत्ययमुपसंहाररूपत्वा दन्ते पठनीयः । ततः पूर्वं तु दश मन्त्राः शतकृत्व आवृत्ताः सहस्रं संपद्यन्ते । तत्सहस्त्रमनुब्यादित्यर्थः ॥ ४२ ॥ ___ अथ मन्त्रसंख्यायां पक्षान्तरमाह -

अपरिमितकृत्व इत्येकेषाम् ॥ ४३ ॥

सहस्रसंख्यां गणयित्वा परिमितस्यानुवचरेन भोगमपि परिमितमेव प्राप्नुयात् । अतो गणनामकृत्वैवापारमिता अनुब्रूयात् ॥ ४३ ॥

अग्नये स्वाहेन्द्राग्निभ्यामित्यश्वस्य पूर्वहोमाञ्जुहोति ॥ ४४ ॥

गृहं प्रत्यागत्याऽहवनीय वित्याग्नये स्वाहेति पूर्वहोमान् ॥ १४ ॥

विभूर्मात्रेत्यश्वमभिमन्त्र्य भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युत्सृजति ॥ ४५ ॥

विभूर्मात्रा प्रभूः पित्रेत्यश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयित्वा ( आप श्री० २०-५-९) इत्यापस्तम्बः । द्वितीयदिने प्रोक्षणानन्तरं विभूर्मात्रा इत्यादीन्य. श्वनामानि अश्वस्य दक्षिणे: करें यनमानं वाचयतीति भावः । भूरसीति पुनरश्वसमीपं गत्वाऽनेन मन्त्रेणावं रशनाभ्यामुत्सृनति रशनावन्धं विमुञ्चतीत्यर्थः ॥ ४५ ॥

तं परिददाति देवा आशापाला इति शतं वै तल्प्या राजपुत्रा देवा आशापालाः कवचिनस्त एतं गोपायन्ति । अनिवर्तयन्तोऽनुयान्ति ॥४६॥

देवा आशावाला इति । रत्निभ्यः परिददाति । शतं कवचिनो र न्ति । अपर्यावर्तयन्तोऽश्वमनुचरन्ति । चतुःशता इनीत्येकेषाम् । शतं तल्प्या राजपुत्राः संनद्धाः संनद्धसारथिनः, शतं वैश्या विपर्थिनः, शतं शूद्रा वरूथिनः । तेऽश्वस्य गोतारो भवन्ति । अनेन मन्त्रेण तेभ्य एव राजपुत्रेभ्यो रक्षार्थमनमश्वं परिददाति । अस्मिन्मन्त्र आशापालदेवशब्देनाभिषिक्तस्य राज्ञः पुत्रास्तल्प्या राज्ञा सहैकस्मिातल्पे शयना : शतसंख्याका विवक्षिताः । यद्वा-इदं शतमश्वस्य, आशापालाश्चतसृषु दिक्षु रक्षामन्त्रोक्ता देवा इत्यर्थः । देवनशीलाः देवाः । चतुर्णी शतानामिदमुपलक्षणम् । प्राधान्या. दस्योपादानम्, ' चतुःशता रक्षन्ति ' (० वा. ३-८-९) इति ब्राह्मणम् । केचित्- रत्निभ्यः परिददाति रस्निनः कवचिनश्च संनद्धा अनुवर्तिनः पृष्ठतोऽश्वमनगच्छन्ति । शतं तल्प्याः पाणिगृहीत्याः पुत्रा राजपुत्रा उमा उमजीविनः पर्वतवा.