पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ ::सत्यापाढावरचितं श्रौतसूत्रम्-- १४ प्रश्ने

दासपूरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै समृद्धायै राजाऽस्त्विति शतेन सूतग्रामणिभिः सह होता पश्चात् प्राञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा सर्वमायुरेत्विति शतेन क्षत्तृसंग्रहीतृभिः सहोद्गातोत्तरतो दक्षिणा समुक्षितमश्वमनू(नु)दकमाक्रमयत्तिष्ठꣳश्चतुर्दिशं यन्त्यन्तरा स्थानमाक्रमणं च॥ ३८॥

नौहेनाश्व प्रत्यञ्च प्रत्यङ्मुखं चत्वारिं शतान्युदूहन्ति । उदकस्थमश्वं शतेन राज'पुत्र सहाध्वर्युः पुरस्तात् प्रत्यङ् तिष्ठन्प्रोक्षति-अनेनाश्वेनेति मन्त्रेण । इतरे तूष्णीम् । 'शतन शिजमिहपौरनभिषिक्त रानपुत्रैः सह ब्रह्मा दक्षिणतोऽनेनाश्वेनेति । सूतमामाणिमिः सह होता पश्चात् प्राङ्मुखोऽनेनाश्वेनेति । क्षत्तुसंग्रहीतृभिः सहोत्तरत उद्दाता-अनेनाश्वेमेति । अझैपीकमुहमुपलावयति प्रवाहयति । अनुदकदेशेऽश्व संस्थापयति । प्रोक्षणमुदक एवं नेतरस्थले । यत्र न पुरा तिष्ठति तत्स्थानमाक्रमयति । स्थानाक्रमणयोरन्तरा यत्पूर्व प्रवाहयति । उदकात्तिष्ठतोऽश्वस्य पदम् । केचित्तु-अध्वर्युब्रह्महोत्रुद्गातारश्चत्वारस्तदीयेन समुक्षणेन प्राच्यादिम्यश्चतसृभ्यो दिग्भ्यो सकाशनमधमभिसमीरयन्त्याभिमुख्येन तत्तद्दिशि सम्यगुत्साहयन्ति । राजपुत्रा अभिषिक्तक्षत्रियपुत्राः स्वयं राज्याहस्तैिः शतसंख्याकैः सहितोऽयमध्वर्यु। पूर्वस्यां दिशि प्रत्यङ्मुखः स्थित्वा तमा प्रोक्षेत् । अनेनेत्यादिवध्यादित्यन्तः प्रोक्षणमन्त्रः । उग्राः शूराः । सूताः सारथयः । ग्रामण्यो ग्रामनेतारो ग्रामस्वामिनः । वैश्यशूद्राम्या मातापितम्यामुत्पादिताः शंत्तारः । कोशवृद्धिकारिणः संग्रहीतारः । स्पष्टमन्यत् ॥३८॥

इदं विष्णुः प्रतिद्विष्णुर्दिवो वा विष्णविति तिसृभिर्वैष्णवीभिस्तिस्र आहुतीर्जुहोति ॥ ३९ ॥

तस्मिन्पादे तिस्रो वैष्णवी होति । जुहोतिचोदितत्वात्स्वाहाकारप्रदानम् ।। २९ ॥

अग्नये स्वाहा सोमाय स्वाहेत्यश्वस्तोकान्प्रस्कन्दतोऽनुन्मंत्रयते ॥ १४.१.४० ॥ दशकृत्व एतमनुवाकमावर्तयति ॥ ४१॥

अवस्य स्तोकान विभुषोऽनुमंत्रयमाणाः स्तोक्याः । अग्नये स्वाहा सोमाय स्वाहा' (तै० सं०७-१-१६) इत्याद्या वा( ब )टमा दशान्वाह ॥ १० ॥ ४१ ॥ अनुवचनीयानां मन्त्राणां संख्यामाह--

शतकृत्व इत्येकेषाम् । सहस्रकृत्व इत्येकेषाम् ॥ ४२ ॥