पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १५

सैधको महापारो वृक्षो यस्य वृक्षस्य मध्ये लोहसमानं सारं कृष्णारुणादिवर्णयुक्त विद्यते तदीयं मुसलं साधनम् । बहुषु पुरुषेषु चलति न त्वेकस्मिन्भर्तरि नियता वर्तत इति पुंश्चली दासी । तत्पुत्रः शुनो हन्ता । पौंश्चलेयो हन्ति ( तै० ब्रा० ३-८-४) इति ब्राह्मणम् ।। ३३ ॥

पूर्वेद्युर्वा शुनः प्रहण्यात्परो मर्त इत्यश्वस्याधस्पद उपप्लाव्य दक्षिणमुपप्लायति ॥ ३४ ॥

तमश्वस्याधस्पदमुपास्यति परो मतः परः श्वेति दक्षिणोपप्लान्य' (आप० श्री. २०-३-१४ ) इत्यापस्तम्बः । भाप्यकारस्तु सूत्रान्तरमनुसृत्य यो अन्तमिति मन्त्र हनने विनियुज्य परो मर्त इति मन्त्रः पादानामधः शुनोऽक्ष्णोरुपरिभागेऽक्षिसदृशं बिन्दुद्वयलाञ्छनं तत्प्रक्षेपे विनियुक्तवान् ॥ ३४ ॥

अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥ ३५॥

हस्तं दक्षिणहस्तं राज्ञो गृह्णीयादित्यर्थः ।। ३५ ॥

अभिक्रत्वेन्द्रभूरधज्मन्नित्यध्वर्युर्यजमानं वाचयति ॥ ३६ ॥

स्पष्टोऽर्थः ।। ३६ ॥

ऐषीकमुदूहमाहरन्ति । पुरस्तात्प्रत्यञ्चमभ्युदूहति वरत्रया निबद्धम् । तस्मिन्नार्द्रा वेतसशाखोपसंबद्धा भवति । तं द्वे शते दक्षिणतो द्वे उत्तरतो वितत्य धारयन्ति ॥ ३७॥

आहरन्त्यैषीकमुदूहम् | उदूधत(हति)एषा(ता)भूमि संमार्जयति पुरस्तात् प्रत्यञ्चमिति वचनात् । वरनया बद्धं तस्मिन्नुदूह आईवेतसशाखो पसंबद्धा भवति । चर्मरज्जुनयं बद्भवेत्यर्थः । तमुहं द्वे शते जना दक्षिणतो द्वे शते उत्तरतो धारयन्त्युदूहो महान् भवति

तेनैनं महर्त्विजः प्रतिदिशं समुक्षन्त्यनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा वृत्रं वध्यादिति शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा प्रतिधृष्योऽस्त्विति शतेनाराजभिरुग्रैः सह ब्रह्मा दक्षिणत उदञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजाऽस्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहु ..