पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ . सत्याषाहविरचितं श्रौतसूत्रम्- . [१४ प्रश्ने

अध्वर्युराह । यद्वा-ब्रह्मन्नश्वमिति मन्त्रेण ब्रह्माणमामन्ध्य ॥ २७ ॥

देवेभ्यः प्रजापतये तेनर्ध्नुहीति प्रत्युक्तेऽभिधा असीत्यश्वमभिदधाति ॥ २८ ॥

तेन मसुते बध्नाति ॥ २८॥

अत्रैकेऽध्वर्योः परिदानमामनन्ति ॥ २९ ॥

अत्रैके शाखिनोऽध्वयोंः परिदानं परिपठन्ति ॥ २९ ॥

श्वानं चतुरक्षमानयन्ति । विष्वक्ब(ग्व)न्धेन बद्धम् । पितुरनुजायाः पुत्रः पूर्वो नयति मातुरनुजायाः पुत्रः पश्चात्पौꣳश्चलेयः सैध्रकं मुसलं धारयन्पेशसा जानुं वेष्टयित्वा पश्चादन्वेत्यपोऽश्वमभ्यवगाहन्ति श्वानं च ॥ १४.१.३०॥

अक्ष्णोरुपरिभागेऽक्षिसदृशं बिन्दुद्वयलाञ्छनं यस्य शुनः सोऽयं चतुरक्षः । तत्राश्वस्थावगाहनप्रदेशे श्वा कश्चिन्नेतन्यः | तन्नयनप्रकारमापस्तम्ब आह-आनयन्ति श्वानं चतुरक्षं विष्वम्बन्धेन बद्धं पितुरनुजायाः पुत्रः पुरस्तान्नयति मातुरनुजायाः पुत्रः पश्चासैयकं मुसलं पोश्चलेयः पेशसा जानुं वेष्टयित्वा पश्चादन्वेत्यापोऽश्वमभ्यवगाहन्ति श्वानं च' (आप० श्री०२०-२-१०) इति । यजमानस्य राज्ञः पितृण्वस्त्रीयो मातृष्वस्त्रीयश्व गच्छतः । सर्वतो बद्ध्वा नीयमानस्य शुनः पुरस्तात्पश्चाच्चोभौ गच्छतः ॥ ३० ॥

प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यञ्चमश्वं प्रोक्षति । इन्द्राग्निभ्यां त्वेति दक्षिणत उदञ्चम् । वायवे त्वेति पश्चात्प्राञ्चम् । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो दक्षिणा । देवेभ्यस्त्वेत्यधस्तात्सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात्सर्वाभ्यस्त्वा देवताभ्य इति वा ॥ ३१ ॥

प्रजापतये त्वेत्यनेन मन्त्रेण पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽध्वर्युः प्रोक्षेत् । एवमुत्तरत्र ज्ञेयम् ॥ ३१ ॥

यत्र शुनोः प्रतिष्ठा तच्छ्वानं प्रसौति । पुरस्ताद्वा प्रोक्षणात् ॥ (ख०२)॥ ३२॥

प्रोक्षणात्पुरस्ताद्वेति विकल्पः ॥ ३२ ॥

यो अर्वन्तं जिघाꣳसतीति पौꣳश्चलेयः सैध्रकेण मुसलेन शुनः प्रहन्ति ॥ ३३ ॥