पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पडला ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाल्याख्यासमैतम् ।

प्राशितवद्भयश्चत्वारो महविज्ञस्तेभ्यः सहस्त्रान्सौवर्णानिषकाम्दवाति, किंच चुरश्वाश्च तरीरथानेतौ च रुक्मौ ॥ १९॥

द्वादशारत्निस्त्रयोदशारत्निर्वा दार्वी मौञ्जी वा रशना । तां ब्रह्मौदनस्योच्छेषणेनानक्ति ॥१४.१.२०॥

भुक्तस्य यदुच्छेषणं पात्रस्थं रोनानक्ति । दृहत्वात(य) ॥ २० ॥ .

अश्वस्य रूपाणि समामनन्ति श्वेतः कृष्णपिशङ्गाः सारङ्गोऽरुणपिशङ्गो वा ॥ २१ ॥ यस्य वा श्वेतस्योल्बं कृष्णं तमालभते । सोमपं सोमपयोः पुत्रम् ॥ २२ ॥ यौ शिशू जातौ पुरा तृणाग्रात्सोमं पाययन्ति तौ सोमपौ भवतः । तयोर्यो जायते स सोमपयोः पुत्रः । यं शिशुं जातं पुरा तृणाग्रात् सोमं पाययन्ति स सोमपो भवति॥ २३ ॥ मातृमन्तं पितृमन्तं पृष्ठे वहे च दान्तमध्वर्युꣳ राज्याय परिददाति ॥ २४ ॥ ब्राह्मणा राजानश्चायं वोऽध्वयू राजा या ममापचितिरेतस्मै तां कुरुतादेष वो यच्च चिकित्सितं तद्वच्चिकित्सितमासदिति । यावद्यज्ञमध्वर्यू राजा भवति ॥ २५ ॥

अश्वस्य रूपाणि । सर्वकृष्णः सर्वश्वेतः, इत्यादीनि मातृमान् पितमान् वोका सोमपः सोमपयोः पुत्र एवंभूतयोरश्व आ(मश्वमा)लभ्य रशनाखनोत्तरकालमध्वर्यु राज्याय परिददाति । ब्राह्मणा आस इ(दि)ति परिदानम् । आडै(द)कं पलम् । हे राजानश्वायमध्वर्युभवतां राजा या मम पूजा सा भवतामध्वर्यो भवतामिल करोति एतस्माअवयवे भवतु । यावद्यज्ञमेष राजा भवति । अध्वर्युरुगातारं कृतमेवेति ( यद्वैष करोति तद्वः कृतमासविति)॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥

देवस्य त्वेति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यश्वमम्वधिवदति ॥ २६ ॥

द्वादशारत्नित्रयोदशारनिर्वा रशना । आदद इत्यन्तः । तामादाय, इमामग्रम्णनशनामृतस्येत्यभिमन्व्येत्यापस्तम्बः ॥ २६ ॥

ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ॥ २७॥