पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ ..सत्यापाढविरचितं श्रौतसूत्रम्-. ... [११ प्रो

वायुम् । नमः सूर्याय दिविक्षित इति सूर्यम् ॥१३॥

अध्वर्युस्तिसभिरग्निं वायु सूर्य यथालिङ्गमुपतिष्ठते यजमान इत्येके ॥ १३ ॥

वैतसमिध्ममभ्याधाय हिरण्यगर्भः समवर्तताग्र इत्यष्टौ पूर्णाहुतीर्जुहोति ॥ १४ ॥ देवा देवेषु पराक्रमध्वमिति तिस्रः ॥ १५ ॥

अथ नाग्वंशकरणम् । एदमगन्म, एते पन्धान इति । सर्वेषां. गार्हपत्यादीनां समारोपणं गतश्रीत्वात् । देवयजनमध्यवसानं प्राग्वशं प्रविश्य आहवनीये वैतसमिध्ममभ्याधायैकादश पूर्णाहुतीर्जुहोति हिरण्यगर्भः इत्यष्टौ । देवा देवेषु पराक्रमध्वर स्वाहा । प्रथमा द्वितीयेषु पराक्रमध्वः स्वाहा । द्वितीयास्तृतीयेषु पराक्रमध्वः स्वाहा

चतुष्टय्य आपो दिग्भ्यः समाभृता भवन्ति ॥ १६॥

चतुष्प्रकाराश्चतुष्टय्यः । आनयति वर्ष्याः कृप्याः स्थावरा वहन्त्यश्चतसृभ्यो दिग्भ्यः समाभृता नैकस्याः । यद्वा----वर्ष्याः कूष्याः स्थावरा वहन्त्यश्चेति जलाना चातुर्विध्यम् । एतच्चाऽऽरुणकेतुके चयने स्पष्टमाम्नातम् । प्राच्यादिभ्यश्चतसम्यो दिग्भ्यस्ता आप आहर्तव्या न त्वेकस्या दिशः ॥ १६ ॥

आहतास्वप्स्वोदनपाकमाह -

तासु ब्रह्मौदनं पचति ॥ १७॥

तास्वप्सु ॥ १७ ॥

पात्र्यामुपस्तीर्य राजतꣳ रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य प्रभूतेन सर्पिषोपसिच्योपरिष्टात्सौवर्णꣳ रुक्ममवधायाभिघार्य चतुर्भ्य आर्षेयेभ्यो महर्वि्यग्भ्य उपोहति ॥ १८ ॥

पायामुपस्तीर्य राजतमित्यादिसौवर्ण रुक्ममुपरिष्टात्कृत्वा प्रयच्छति । आर्षेयग्रहणं कर्वन्तरे प्रतिनिधीयमानेऽसनिहिते तदशक्ती वाऽऽपैयार्थं यथा स्यादिति । औपासने अपर्ण ब्रह्मौदनस्य ॥ १८ ॥

प्राशितवद्भ्यश्चतुरः सहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ च शतमानौ रुक्मौ ॥ (ख०१) ॥ १९॥