पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] . महादेवशास्त्रिसंकलितमयोग चन्द्रिकाध्याख्यासमेतम् । २११

यथप्ययमश्वमेधो द्वादशाहविकृतिद्वारा परम्परयाऽग्निष्टोमविकृतिः । अतो वपनादिकमन्न प्राप्तम् । तथाऽप्येतद्दीक्षासमीपे न वन्न । अतोऽप्राप्तमपूर्व वपनादिकमत्राऽऽह -

केशश्मश्रूणि वापयते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते ॥८॥

अत्राऽऽपस्तम्बोऽपि-'अमावास्यामिष्ट्वा देवयजनमभिप्रपद्यते । केशश्मनु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते' (आप०ौ ०२०१-१३ ) इति । अहतमच्छिन्नं नूतनम् ॥ ८॥

अधिवृक्षसूर्ये वाचं यच्छति ॥ ९॥

वाचं यत्वोपवसति । सुवर्गस्य लोकस्य गुप्त्यै ( ते. ब्रा० ३-८-१) इति ब्राह्मणम् । वाग्यमनपूर्वकणोपवासेन स्वर्गलोको रक्षितो भवतीत्यर्थः ॥ ९॥

वाग्यतस्यैताꣳ रात्रिमग्निहोत्रं जुहोति ॥ १४.१.१०॥

वाग्यतस्यैता५ रात्रिमग्निहोत्रं जुह्वति । प्रातहोमोऽपि रात्री वोषस्येव प्राक्प्रातहोंभावाग्विसर्गः । अन्यकर्तृकाग्निहोत्रहोमः ॥ १० ॥

अरातयो रातयश्च परित आसते रातय इत्येकेषाम् ॥ ११ ॥

ये रातयस्ते जागरयन्ति, इत्यापस्तम्बः । ये रातयः मित्राणि जागरयन्ति ॥ ११ ॥

नमो द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमो वाचे नमो वाचस्पतये नमश्चक्षुषे नमः श्रोत्राय नमस्तपसेः नमो ब्रह्मण इत्युद्यन्तमादित्यमुपतिष्ठते ॥ १२ ॥

एकविंशत्या नमस्कारैरुद्यन्तमादित्यमुपतिष्ठते ॥ १२ ॥

उदित आदित्ये नमोऽग्नये पृथिविक्षित इत्यग्निमुपतिष्ठते । नमो वायवेऽन्तरिक्षक्षित इति -