पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० सत्यापाढविरचितं श्रौतसूत्रम्- १४ प्रश्

वैशाख्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरं बहुरूपमालभते ॥ ५॥

वैशाख्यां पौर्णमास्यां मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यश्वादिभिर्वाऽऽनयन्ति । ततः प्राजापत्यमृषभं तूपरं सर्ववर्ण शुक्लनीलपीतादियुक्तमालभेत । पशुबन्धेन यक्ष्ये, सर्वाकामानवाप्तवानीत्युक्त्वा । प्रजापतये त्वा जुष्टमुपाकरोमीति । शेषं निरूढपशुबन्धवत् ॥ ५॥

तस्या योत्तराऽमावास्या तस्यामपदातीन् महर्त्विजः प्रतिदिशं समावहन्ति ॥ ६॥

अनन्तरभाविन्याममावास्यायां हस्त्यश्वादिभिर्वोद्गातुरानयनं भवति। तदाऽऽरूढ एव देवो देवमेत्वित्यादि। आगते मधुपर्कः। अथवाऽस्मिन्काले वरणं कृत्वा मधुपर्कः । तस्यामपदातीन्महत्विज आनयन्ति । महविजामानयनमस्मिन्नहनीत्यर्थः । उद्गातृवर्जमाग्नी, पूर्वमेवेष्टेरानीतं पशौ मैत्रावरुणप्रतिप्रस्थातारौ ॥ ६ ॥ अथविगानयने विशेषमाह..

अन्वहमितरान्वाऽऽवहन्त्या सुब्रह्मण्यायाः॥७॥

अन्वहमितरानानयन्ति हस्त्यश्वादिभिर्यथाज्येष्ठमा सुब्रह्मण्यायाः। अथवा-ये ऋत्विजः स्वस्वगृहे वृतास्तानृत्विजोऽपदातीनावहन्ति पादसंचार निवार्य हस्त्यश्वादीनारोह्य राजपुरुषास्तानृत्विज आनयन्ति । तत्र कालावधिरा सुब्रह्मण्याया इति । यस्यां चैध्या पौर्णमास्यां सांग्रहणी तत आरभ्य संवत्सरेऽतीते सत्युपारीतनसंवत्सरे वैशाख्याममावास्यायां त्रैधातवीयरूपायां दीक्षणीयामारभ्य सप्तसु दिनेषु तस्यां दीक्षणीयां समाप्तायां तत्समाप्तिदिनमारभ्य दिनत्रये दीक्षा परिसमाप्य तत्रोपरितने प्रायणीयेऽहनि सुब्रह्मण्या प्रवर्तते । तत्सुब्रह्मण्यापर्यन्तम॒त्विजां समावहनं कर्तव्यम् । तद्यथा-सांग्रहणीष्टिदिने तस्य तस्य गृहे गत्वा सोमप्रवाकेण वृतानध्वर्युब्रह्महोतनाग्नीधं च हस्त्यश्वादिकमारोप्येष्ट्यर्थमानयन्ति । अनन्तरभाविन्यां वैशाख्यां पौर्णमास्यां प्राजापत्रमृषभं तूपरमालब्धं सोमप्रवाकवृतौ मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यश्वादिकमारोप्य राजपुरुषा आनयन्ति । तदनन्तरभाविन्यां वैशाख्याममावास्यायां ब्रह्मौदनार्थ चतुर्णी महविजामपेक्षितत्वादध्वर्युब्रह्महोतृणां पूर्वमेवाऽऽनीतत्वादवशिष्टमहार्वजमुद्गातारं हस्त्यश्वादिभिरानयन्ति । अथाऽऽगामि. संवत्सरगतायां वैशाख्याममावास्यायां दीक्षणीयेष्टौ साम गातुं प्रस्तोतारं हस्त्यादिभि रानयन्ति । ततो दीक्षारम्भदिवसादूर्ध्व तृतीयादिष्वहःस्वन्वहमितरानष्टावृत्विनो हस्त्यश्वादिकमारोप्याऽऽनयन्ति । ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहर्तारं ग्रावस्तुतं पोता. रमुन्नेतारं सुब्रह्मण्यमित्येतान्सोमार्थमानयन्ति ॥ ७ ॥