पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३०९

___ वानसनेयिबामणमिति शेषः । स सर्वकामस्य भवति । सर्वकामावाप्तिश्च परमात्माख्यस(त)त्त्वप्राप्तिमन्तरेण न भवति । यावच्छरीरकालभाव(वि)नो हि कामा इति । तेन सर्वकामस्येति मुमुक्षोरित्येतदुक्तं भवति । तथा च ' सर्वान्ह वै कामानाप्नोति सर्वा न्युष्टीयंभुते योऽश्वमेधेन यजते ' इति। यदा-सर्वे कामा ब्राह्मणस्य विजयो राज्ञः पुष्टिवैश्यस्य चेति त्रयाणां वर्णानामेवाश्वमेधाधिकार इति ॥ २॥

पुण्यनामधेयं चित्रं देवयजनमध्यवस्यति। यस्य पुरस्ताद(दा)पः सुखाः सूपावगाहा अनपस्वरी ॥३॥

पुण्य पावनं नामधेयं यस्य श्रवणमात्रेण प्रतीयते तत्पुण्यनाम स्थानं पुष्करवनं गीतमवनं वाराणसी कुरुक्षेत्रमित्यादि । यत्राऽऽपः पुरस्तात्सुखाः सुखस्पर्शा नात्युष्णा 'प्रीमतों नातिशीता हेमन्तौ । सूपावगाहाः सुतीर्थाः । अनपस्वरी:, अपेत्य न पः ( याः ) स्वरन्ति संभृता वहन्ति संस्कारयन्ति भूमिमम्युभिः स्रोतोभिरशोण्या वा । एवंगुणविशेषणविशिष्टायां भूमौ चित्रानक्षत्रकालेऽव्यवस्यति देवयजनं करोती. त्यर्थः । चैत्र्यां पौर्णमास्यां प्रातरग्निहोत्र५ हुत्वाऽश्वमेधेन यक्ष्ये स्वर्ग लोकमवाप्नवान्मत्युक्त्वा गृह एव ब्राह्मणैः सह स्वस्तिवाचनं कृत्वा विद्युत् । खोमप्रवाफवरणं च मधुपर्कोदिभिरम्यर्च्य तं प्रेषयेत् । स चाववादिर्ग्रहान्प्रत्वागत्यक्रमेण राजेन्द्रवर्मणोऽश्वमेधो भविष्यति तत्र भवताऽध्वयादि, एवमुद्रातृपर्यन्ताना नाहीनं इत्युक्ते नाहीनोऽश्वमेध इति प्रतिवचनम् । महन्मे वोच इति जपानन्तर चाध्वर्युब्रह्महोतॄन्हस्त्यश्वादिभिरपदातीनानयन्ति राजमनुष्यास्त आरूढा एव देवो देवमेस्वित्यादि राजगृहं गच्छन्ति । तत नो( उदातणां मधुपर्कः । ततो देवतोपस्थानं नान्दीश्राम् । हस्त्यश्वादिनाऽऽसीधमानयति । तत आग्नीध्रवरणं मधुपर्क च कुंयोत् ॥ ३॥

चैत्र्यां पौर्णमास्यां सांग्रहण्येष्ट्या यजेत तस्या योत्तराऽमावास्या तस्यां संज्ञान्या ॥ ४ ॥

इमा जमतों स्वस्यापेक्षित जनसमूह संग्रहीयामीत्यभिप्रेत्य सांग्रहण्याख्ययेष्टया घजते । सा चेधिः-वैश्वदेवी सांग्रहणी निझामकाम इत्यत्रोत्पन्ना । संगृह्यतेऽपेक्षितं -सर्व ययाऽसौ संग्रहणी सैव सांग्रहणी । सांग्रहण्येष्टया यक्ष्य इत्यादि, सांग्रहणीय हविः काम्येष्टिकरणे वक्ष्यते । अनन्तरममावास्या तस्यां संज्ञान्या यक्ष्य इत्यादि । सा च कृत्स्नेष्टिाख्यास्यते । एते कामरहिते ॥ ४ ॥