पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६५ १४ प्रश्ने सत्यापादविरचितं श्रौतसूत्रम्-

14.1 अथ चतुर्दशः प्रश्नः ।

विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरु कृपाब्धिम् ॥ गुरुं गणपतिं नौमि जन्मज्ञानप्रदौ तथा । सह गौर्या महेशानं नौमि विष्णु च पद्मया ॥ वाजपेयराजसूयौ गतावित्थं त्रयोदशे। अश्वमेध नमेधं च व्याचष्टेऽथ चतुर्दशे ।। ननु । योऽश्वमेधेन यजते' (तै० सं० ५-३-१२) इत्यादौ राजपदाभावात्रयाणां वर्णानामेवाधिकारोऽश्वमेधस्येति प्रतीयते । तदेवं पापक्षयार्थमश्वमेधक्रतुं तदुपासनं च कुर्यात् । तथा च ' सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषनः सर्व वा एतेन पाप्मानं देवा तरति ब्रह्महत्या अतरत्नपि वा एतेन ब्रह्महत्यांमतरन्सर्वं पाप्मानं तरति तरति ब्रह्महत्या योऽश्वमेधेन यसते य उ चैनमेव वेद' (ते. सं० ५-३-१२) इति । येयमन्वमेधानुष्ठितिः सैषा सर्वस्य पाप्मन उपपातकरूपस्य महापातकरूपस्य च प्रायश्चित्तिर्भव. ति। किंच सर्वस्य व्याधिनातस्य तद्धेतुपापक्षयद्वारेणाश्वमेधानुष्ठानं भेषजम् । अत एवेदानीतना देवाः पूर्वस्मिन्मनुष्यजन्मन्येतेनाश्वमेधेन गोवधादिरूपमुपपातकं ब्रह्महत्यादिरूपं महापातकं च परिहृतवन्तः । तस्मादिदानीमपि योऽश्वमेधकतुना यजते सोऽयमुपपातिकमहापातके तरति । योऽपि च पुरुष एनमश्वमेध शास्त्रोक्तप्रकारेण जानाति । ज्ञान व विविधम् .. अनिर्णय उपासनं च। तत्रार्थनिर्णयः पदवाक्यप्रमाणपर्यालोचनया संपयते । उपासनमकारस्तु सप्तमकाण्डस्थान्तिमानुवाके-'यो वा अश्वस्य मध्यस्य शिरो भेद' (ले० सं०७-९-२८) इत्यमिधास्यते । सौत्रामणीविधानसमनन्तरं श्रुतिमन्त्रपाठावसरप्रामोऽश्वमेधोऽनुविधीयते -

राजाऽश्वमेधेन यजेत ॥१॥

राजशब्दोऽभिषेकषति क्षत्रिये वर्तत इत्युक्तं प्रदेशान्तरे । तथा च ' क्षत्रिययज्ञ उ वा एष यदश्वमेधस्तस्माद्राष्ट्यश्वमेधेन यनेत ' इति । कात्यायनोऽपि सूत्रयामास• रानयज्ञोऽश्वमेधः' (का-१० २०-१) इति । राज्ञो यज्ञो राजयक्षः । न ब्राह्मणवैश्ययोरिति । अश्वमेध इति त्रिरात्रस्य यज्ञक्रतोनामधेयम् । आपस्तम्बोऽपि'राना सार्वभौमोऽश्वमेधेन यजेत । अप्यसार्वभौमः' (आप० श्री० १०-१) इति । अश्वमेध इति सर्वेष्टिपशुसोमानी समुदायनाम । राज्ञो नित्योऽश्वमेध इति ॥ १ ॥

यः कामयेत सर्वा व्युष्टीर्व्यश्नुवीयेति ॥ २ ॥