पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 . सत्यापादविरचितं श्रौतसूत्रम्- [१६ प्रश्नैवरुणाय जुष्टं निर्वपमित्यादि आप्यलेप निनीय प्रोक्षणीरासादयति आज्येनोदेहीति । पर्गहीतान्याज्यानि, अयं प्राणश्च । अवभृथवदारुणमलंकृत्योत्तरवेयंसे तूष्णीमासादयति २६.

तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ॥ ३९ ॥

संस्थावभृथस्य सौमिकेन समानः कल्पो व्याख्यातः । तथाचाऽऽयुर्दा इत्यवभृधमध्यनहुयात् । उरु हि राजा० ॥ ३९ ॥

न साम गीयते ॥ १३.८.४० ॥

वे सामगोयनं प्रस्तोतुरंभावात् ॥ १० ॥

तूष्णीमेव परेत्य मासरमृजीषकल्पेन प्रतिपादयति ॥४१॥

जातं ते राजनित्यायैवभृथवत् । विष्टकृदन्तेऽनूयाजान्ते वा कृते मातरमृजीषकरूपेन प्रतिपादयति । मासरस्य तूष्णीमेव प्रोक्षणम् | मासरेण खुचं पूरयित्वा मन्त्रेण निमज्जन, ताणी बिन्दुस्पर्शनम् ॥ ११ ॥

यस्ते देव वरुण गायत्रच्छन्दाः पाशो ब्रह्मन्प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्याश्विनपात्रं प्रविध्यति । यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः क्षत्त्रे प्रतितिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति सारस्वतस्य । यस्ते देव वरुण जगतीछन्दा: पाशो विशि प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्यैन्द्रस्य । यस्ते देव वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति शतातृण्णाꣳ स्थालीम्। यस्ते देव वरुण पङ्क्तिच्छन्दाः पाशो वाचि प्रतिष्ठितस्तं त एतेनावयजै तस्मै स्वाहेति शूलान् ॥ ४२ ॥

माचिनादिषात्राणां स्थाल्यादीनां च प्रक्षेपः । ततं इमं विष्यामीति पत्नी ग्रोक्नविमीकं करोति । अन्ये वाससी परिधार्य योकोण वाससी क्षिपति । देवीरापः । प्रगिस्य तभी सुमित्रा ने आप इति स्वातः पत्नी यजमानश्चान्योन्य पृष्ठे धावतः । नाझलिक्मिीकः । दक्षिाविमोकार्थत्वात् । नौन्नतृप्रेषणमुन्ने तुरभावान्नोनयनम् । अहंतवाससी परिधान यजमापल्यो । उद्यमित्यादित्यमुपतिष्ठते ॥ ४२ ॥.. . अ