पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २०५

पशुभिः प्रचर्य पुरोडाशैः प्रचरति ॥ ३६॥

ततः प्रतिष्ठापने कृते मार्हस्पत्यस्य पशुपुरोडाशेन प्रचर्याध्वर्युः श्रु(7)त५ हविः शमितरित्यादि सं ते मनसा मनः, अश्विभ्यां त्वा जुष्टममिधारयामीति, एवमन्तमेकस्य कृत्वोत्तरयोरन्यत्पृषदाज्यमानीयान्यत्स्वाहोष्मण इति तन्त्रेण, क्रमेण पञ्चहोत्रोपसादयति क्रमेणाऽऽ. सनमभिमृश्य तच्चतसृषूपस्तृणीतेत्यादि उपभृति व्यावदानं हिरण्यमुपारष्टादमिश्चारणं च न भवति । इडायामप्यवत्ते यूप्णो(तूष्णीमु)पसिच्य नाभिंघारयति । यसाहोमहवणीं गृहीरवाऽनवदानीयः संमृश्य-अश्विभ्यां छागस्य हविषोऽनुहि एवं प्रेप्य, अर्धर्षे वसाहोम हुत्वोद्रेकमन्यस्मिन्नवनयति वषट्कृते होमः प्रत्याक्रम्य पूर्ववत्सर्वमुपस्तरणं न विडापा. प्रस्य, सरस्वत्यै मेषस्य हविषोऽनुहि। एवं प्रेष्य । वषट्कृते होमः। अर्धर्षे वसाहोमः । उद्रेकमन्यस्मिन्नवनयति । उत्तमस्य पशोरुपस्तरणादि ऐन्द्रः प्राण इत्यन्तं प्रकृतिवत् । इन्द्रायर्षभस्य हविषोऽनुहि एवं प्रेष्य, अर्धचें वसाहोमः । उद्रेकान्समवाय दिशः प्रदिश इत्यादिदिगुपस्थानान्तं वषट्कृते होमः । सानाय्यवदनुमन्त्रणमायन्तयोः । सर. स्वत्या अहमिति मध्यमस्यैवं कृत्वा पुरोडाशैः प्रचरति जुह्वामुपस्तीर्यत्यादि इन्द्रायानुमूहि इन्द्रं यज, इन्द्रस्याहमिन्द्रियाव्यन्नादः । सवित्रेऽनुहि सवितारं यज, सपितुरहमलादः । वरुणायानुभूहि वरुणं यन वरुणस्याहमन्नादः । अथ मारिष्ठान्हुस्या वनस्पतियागं कुर्यात् ॥ ३१ ॥

पशूनां पुरोडाशानां च समानꣳ स्विष्टकृदिडꣳ सꣳस्थाप्य ॥३७॥

पुरोडाशेभ्यः स्विष्टकृते समवद्यति पशुस्विष्टकृते समवद्यतीति वचनात् । पशुस्विष्टकृता सहावदायाभिधार्य हिरण्यशकलं पूर्वमेव कृतं स्विष्टकृद्यागं कृत्वा वैश्वानरे हविरिदं। ततः प्राशित्रं बार्हस्पत्यादारभ्य पुरोडाशेम्य इडा, पश्चिडया सहामिधारणं, यजमानभागवर्ज पुरोडाशानां मार्जनान्तम् । अथाग्नीदोपयमानित्यादिपाशक कर्म प्रतिपद्यते । समुद्रं गच्छत स्वाहेत्यादि स्वरुहोमः । जापनीभिश्च पत्नी: संयाजयन्ति । न पल्पाली निनयनं नात्र योक्त्रविमोकः । उपपोद्वासान्तं कर्म कुर्यात् ।। ३७ ॥

शूलैर्मासरेण पात्रैश्चावभृथमवयन्ति॥३८॥

शूलैहृदयशूलैः । मासरमृजीपकल्पेन प्रतिपादयति । बल्कसं भासरमित्याचक्षते ( आप० श्री० १९-४-८) इत्यापस्तम्बः । पात्रैर्ग्रहश्च चशब्देन शतातृण्णा स्थाल्यपि गृह्यते। वारुणमेककपालं निर्वपति । अवभृथस्य कर्म-परिस्तरणी परिभोजनी उलपराजी वेदश्च नास्ति । उपवेषं कृत्वा पुरोडाशसिद्धयर्थानामेव पात्राणां पुनः प्रयोगः । अग्निहोत्रहवणीवर्जमपरतः पुरोडाशसिद्धयर्थानि पात्राणि प्रयुज्य पवित्रकरणादि