पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः । महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याख्यासमेतम् । २०३

ब्रूहि । अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमान्सुरान् प्रस्थितान्प्रेष्येति संप्रेष्यति ॥२६॥ वषट्कृते जुहोति ॥ २७ ॥

ऐन्द्रं तृष्णीमभिधार्य सवित्रे जुष्टं ० अलंकृत्य सादनान्तमाग्नेयवत् । सावित्रवारुणयोरभिमर्शनम् । यो नः कनीय अपतमिन्द्रो भुवनान्नुदताम् , अथ ग्रहैः प्रचरन्ति जुहूविकारा अप्युपभूद्वजै ये गृह्णन्ति ग्रहांस्तं तं स स आदत्तेऽध्वर्युः । अश्विभ्यामित्यादि संप्रेषः ॥ २६ ॥ २७ ॥

अनुवषट्कृते हुत्वा बार्हस्पत्यस्य पशुपुरोडाशेन प्रचरिते ब्राह्मणं परिक्रीणीते ग्रहोच्छेषणस्य पातारम् । यदत्र शिष्टꣳ रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन सोमꣳ राजानमिह भक्षयामीति भक्षयति ॥ २८ ॥

युव५ सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः । सोमस्याग्ने वोहीत्यनुय. जति ( आप० श्री० १९-२-१) इत्यापस्तम्बः । अनुवषट्कृते हुत्वा बार्हस्पत्यस्य पशुपुरोडाशेन प्रचारः । ततो हुतशेषं भक्षयति यजमानः ॥ २८ ॥

नाना हि वां देवहितꣳ सदोमितं मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एष मा मा हिꣳसीः स्वां योनिमाविशन्निति भक्षयन्तमभिमन्त्रयते ॥ २९॥

यजमान इति शेषः ।। २९ ॥

द्वे स्रुती अशृणवं पितृणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत् ॥ १३.८.३० ॥ स्वयं वा पिबेत् । सर्वहुतां वा जुहुयात् ॥ ३१ ॥

वल्मीकंवपायां वाऽवनयेन्ग्रहशेषम् ॥ ३० ॥ ३१ ॥

दक्षिणाग्नौ प्रबध्य शतातृण्णाꣳ स्थालीं वितत्य धारयन्ति । शतातृण्णेन सौवर्णेन रुक्मेणापिहिताम् ॥ ३२ ॥