पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- १३ प्रभे

भवति । षोडश्युत्तरे हविष्मन्निधनं पूर्वमहर्भवति। हविष्कृन्निधनमुत्तरम् । अमावास्यायां पूर्वमहर्यजनीयमुत्तरम् । आपूर्यमाणपक्षस्य वा । ये पुण्ये अहनी स्याताम् ॥ ३३॥

श्वीभूते ध्रुवाः प्रयुज्य पोडशिपात्रं न वा परिष्टवादि । पशुपात्राणां काले त्रिगुणा दश पञ्च द्विगुणा पञ्च कुम्भ्यः पश्च शूला वपाश्नपणीर्दर्भयुगलानि ऐन्दवायवग्रम् । पशुभिरेहि आश्विनं गृहीत्वा यूपचतुष्कं मिनोति । अञ्ज(अभ्यादा नाद्यांनष्ठाइक्षिणमित्यायुत्तरापवर्गः। तत उपशयनिधानं कापेय्यैकादशिनीवत् । आग्नेयमग्निष्ठादाक्षिणोत्तरयोरेन्द्रौ । उत्तरे सारस्वतः पशुः । दक्षिणे सावित्रः । तत उपशय आखुनिर्देशः । दक्षिणाकाले दशसहस्रं ददाति । अग्निष्टोमचमसैः प्रचर्य षोडशिहोम, अग्निष्टोमवंस्थायां यज्ञायज्ञीये स्तूयमान उत्तरस्मिनहनि वसतीवरीगुहाति । सूक्तवाक उच्यमाने श्वः सुत्यामिति प्रैष पत्नीसंथानान्ता सतिष्ठते । मैत्रावरुण्या शाखाच्छेदनादि कुम्भीलेपनान्तं दिवैव रात्री वसतीवरीः परिहत्य . दोहन, पशुशाखाहरणादि परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि, अतिरात्रसंस्थाः सपोडशिकाः । पशुपात्रप्रयोगे द्वादश . यूपरशनाः षट्पशुरशनाः षट्कुम्यः शूलाश्च वपाश्रपार्दर्भयुगलानि च शुक्रग्रहादि पशुभिरेहीत्यादि आश्विनौ गृहीत्वा षड्यूपान् मिनोति । अग्निष्ठाइक्षिणोत्तरयोदक्षिणत आरभ्य व्यत्यासेनोदगपवर्गाः पूर्वोपशयान्तं तन्त्रेण स्थापयति भेदेन वा । तत उपशयस्य च्छेदनम् । रशनाद्वयस्य परिव्ययणम् । मितानामुपशयस्य च। अस्मिन्नहनि । मितानामाद्ये वैश्वदेवानामुपाकरोति । द्वितीय उत्तरे सौम्य तृतीये दक्षिणे मारुतमुत्तरे चऽर्थे पोष्णं, पुनश्चोत्तरे पञ्चमे बार्हस्पत्यं, अथ दक्षिणे षष्ठे. वारुणं, तत आखुनिर्देशः । दक्षिणाकाले दशसहस्रं ददाति । काठकदक्षिणा (पृथक्) पूर्वेयुः प्रसर्पणान्तं तन्त्रेण तिरोहान्तम् । अग्नीदीपयजानित्यादि अनूबन्ध्यावपां हुत्वा • पानीवतं कर्म, पशुपुरोडाशादि देवमुवामेतानि हवींषि, इत्यादि उदवसानीयान्तम् । पौर्णमास्यां पूर्वमहारत्यादिविकल्पः । अमावास्यायां पूर्वमहरित्यस्य प्रयोग उक्तः । आपूर्यमाण इति विकल्पः प्रथमायां पूर्व द्वितीयायामुत्तरं दशम्येकादशी वा ॥ ३३ ॥

क्षत्राणां धृतिरग्निष्टोमस्तेनान्ततो यजेत ॥ ३४ ॥

यस्मिन्नहनि व्युष्टिद्विरात्रसमाप्तिस्तस्मिन्नहनि क्षत्राणां धृतेरारम्भः । द्वितीयायां वोक्तप्रयोगस्य आरम्भः । क्षत्राणां धृतिना यक्ष्य इत्यादि पवित्रवत् । एका दीला तिस्र उपसदः पञ्चम्यां प्रसुत इति । सोमक्रयणकाले गया ते कोणानीत्युक्त