पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ 1. . सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

हौ च तद्दक्षिणाऽश्वो वा। शोणकर्ण इत्येकेषाम् । तत्प्रतिराजभ्यः प्राहिणोति ॥ २५॥ अभ्यषिक्षि राजाऽभूवामित्यावेदयति ॥ २६ ॥

श्वोभूते प्रातरग्निहोत्र हुत्वा प्रयुना हविमिर्यक्ष्य इत्यादि । षट्चरवः । सरस्वत्यै जुष्टं पूष्णे जुष्टं • मित्राय जुष्टं० वरुणाय जुष्टं क्षत्रपते जुष्टं • अदित्यै जुष्टं० इत्यादि पिण्डं कृत्वा घमोऽसीति स्थाल्यां क्षिपतीत्यादि । उत्तरो रथवाहनवाहो दक्षिणा, इत्यापस्तम्ब अत्र ब्राह्मणेऽपि-टूतान्प्रहिणोति । आविद एता भवन्ति । आविदमेवैनं मध्यन्ति । अतो दृतेभ्य एव न च्छिद्यते (ले० प्रा० १-८-३) इति विधिAष्टव्यः । प्रतिराजभ्यो दूान्प्रेषयति । एते दूता आविदो भवन्त्येतदीय शासनमा समन्ताद्वेदयन्ति ख्योपयंन्तीत्याविदः । तेन दूतप्रेषणेनैवं यजमानमाविदं गमयन्ति आ समन्ताद्विद्यते रूयाप्यत इत्यविकीर्तिस्तां प्रापयन्ति । किं चायं दृतेभ्यो न विच्छिद्यते सर्वतः प्रेषयितुं कदाचिद्भुता न लभ्यन्त इत्येवं विच्छेदो न भवति किंतु सर्वदा बहवो दूताः संनिहिता वर्तन्ते । दूतप्रेषण कार आपस्तम्बेन स्पष्टीकृतः-'तान्यभ्यवस्नाय प्रतिराजभ्यः प्रहिगोति । अभ्यषिक्षि- राजाऽभूषामित्यावेदयते' ( आप० श्री. १८-२२-४) इति । सानि तिसृधन्वादीनि दक्षिणाद्रव्याण्यभ्यवस्नायामित आक्रम्य स्नात्वा तानि प्रतिराजम्यो दर्शयितुं दुतहस्ते दत्त्वा प्रेषयति । स च दूतो राज्ञ एतद्वचनं तेषामग्रे कथयति अभि. षिक्तोऽस्मि युष्माकं सर्वेषां राजाऽभूवमिति ॥ २६ ॥

संवत्सरमग्निहोत्रं जुहोति ॥ २७ ॥ अनुसंतत्यै तत्र येऽग्निहोत्रेणाप्रतिषिद्धाः क्रतवस्तानाहरेत् ॥२८ ॥ संवत्सरे केशवपनीयेनातिरात्रेण यजेत ॥ २९ ॥ तत्र वपनप्रवादा मन्त्रास्तेषामादिप्रवादैरादितो वापयेतान्तप्रवादैरन्ततः । संतिष्ठते केशवपनीयः ॥ १३.७.३० ॥

केशवपनीयातिररात्रस्य वैशेषिका धर्मा उच्यन्ते । तत्र कात्यायन:-अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः ( का० श्री १५-९-२६ ) इति । पशुबन्धद्वयानन्तरं केशवपनीयातिरात्रयागः कर्तव्यः । अभिषेचनीयसोमयागं कृत्वा संय. सरपर्यन्तं केशवपनाकरणलक्षणं व्रतमाचर्यम् । ततस्तद्रतविसर्जनार्थमेकः सोमयागः पौर्णमासी सुत्यः कार्यः स एव केशवपनायातिरात्र उच्यते । रात्रिमतीत्य वर्तत इत्यतिरात्रोऽसिरात्रसंस्थया कार्यः ||