पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.७ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । .१८९

ननु राजसूये श्रूयते प्राकाशावध्वर्यवे ददाति ( तै० सं० १-८-१८ ) इति । प्राकाशौ दीपस्तम्बावित्येके । दर्पणावित्यपरे। तौ किं प्राकृतस्य दक्षिणाद्रव्यस्य बाधकायुतायुभागस्यैव । तत्र प्राकाशौ ददातीति कर्मकारकवाचिद्वितीयाश्चतिकृतेन दानसबन्धेन प्राकाशावध्वर्यव. इति वाक्यकृते पुरुषसंवन्धेऽपोदिते सति देयद्रव्यप्रतीतर्देयान्तरस्य कृत्स्नस्य बाध इति पूर्वपक्षः । अध्वर्यवे ददातीति संप्रदानकारकवाचिचतुर्थाश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदानविशिष्टंदानक्रियासंबन्धेऽपि द्विती. याश्नुतेरविरोधादध्वर्युभागस्यैव बाध इति राद्धान्तः ॥ १५ ॥

संतिष्ठते दशपेयः ॥ १६ ॥

अग्निष्टोमचमसैः प्रचर्य पोडशिहोमः, न होम इति भाष्यकृत् । दशपेयोऽग्निष्टो महोम-. यागः । अवभृथादुदेत्यानूबन्ध्यायाः पशुपुरोडाशमष्टौ देवसुवामेतानि हवींप्यनुनिर्वपती. त्यादि । समाप्यते दशपेयः ॥ १६ ॥

तस्मिन्सꣳस्थिते दिशामवेष्ट्या यजते ॥ १७॥

तस्मिन्सस्थिते दशपेय उपोषणं कृत्वा पञ्चासीन्समारोप्य दिशामवेष्टयोदवस्यति, न पूर्णाहुतिः । नोदवसानीयधर्माः पश्चकपालादयः । इदमूनश्रेय इति कृत्वाऽग्नीन्मधिस्वोपावरोह्याऽऽयतने निदधाति ॥ १७ ॥

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातꣳ हविषो हविष इष्ट्वा बार्हस्पत्यं प्रत्यभिघारयेत् ॥ १८ ॥

विशामवेष्ट्या यक्ष्य इत्यादि । अद्य यज्ञाय दिशामावेष्ट ५ हविः० शाखाहरण. मित्यादि कुम्भीलेपनान्तम् । अग्नये जुष्टं ० इन्द्राय जुष्टं विश्वेभ्यो देवेभ्यो जुष्टं। .इत्यादि । प्रातदोहकर्म | मित्रावरुणाभ्यामिति निगमाः । घोऽसीति लौकिकदध्यानयनम् । आग्नेयादीनां चतुर्णी मध्य एकैकयागादूर्व पञ्चमहविषि अभिधारणम् । दक्षिणाकाले हिरण्यर्षभपष्ठीहीवशाशितिपृष्ठाः । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ १८ ॥

तयाऽन्नाद्यकामः स्वर्गकामो वा यजेत ॥ १९ ॥

यजमानः ॥ १९ ॥

ब्राह्मणो यजमानो मध्ये विधायाऽऽहुतिमाहुतिꣳ हुत्वाऽभिघारयेत । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम् ॥ १३.७.२० ॥

एतयैवेष्टया राजसूयादन]कामसंयोगे ब्राह्मणादयः कुर्वन्ति ॥ २०॥