पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १८८ - सत्यापादविरचितं श्रौतसूत्रम्-: [१३ प्रश्ने

यद्वा-- प्रकृती वहन्तीनां गृह्णातीति प्रवाहमानगतानामपा वसतीवरीत्वादत्रापि तत्प्राप्तौ सरस्वतीगता एवाऽऽपो विधीयन्ते ॥ ९॥ . ..... चोदकप्प्राप्त होतसामान्यादिकं बाधितुं विशेषानाह-

भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् ॥ १३.७.१० ॥

प्रकृती यः कोऽपि होतेत्यत्रापि तत्प्राप्तौ. भृगुगोत्रोत्पन्न एवेति विशेष्यते । प्रकृती · ब्राह्मणाच्छसिन प्रत्याज्यस्तोत्रे गायत्रसाम्नो विहितत्त्वात्तदपवादाय श्रीयन्तीय सामात्र विधीयते । श्रायन्त इव सूर्यमित्यस्यामृच्युत्पन्नं सोम श्रायन्तीयम् । प्रकृती यज्ञायनीयस्याग्निष्टोमभामत्वात्तदपोद्य वारयन्तीयं साम विधीयते । अवे न त्वा वारवन्तमित्यस्यामृच्युत्पन्नं वारवन्तीयं साम ॥१०॥ .. . अथ पद्धतिः- महाराने श्वे त्यादिपरिप्लवासादनान्ते।

पात्रसꣳसादनकाले दश चमसानधिकान्प्रयुनक्ति ॥ ११ ॥

दश चमसानधिकान्प्रयुनक्ति ।। ११ ॥

उन्नयनकाले दश चमसानधिकानुन्नयति १२॥

एवं चमसोन्नयनकालेऽपि दश चमसानधिकानिति वचनाचमसाध्वर्यव( qणां )वृद्धिः ।

भक्षणकाले य आ दशमात्पुरुषादविच्छिन्नसोमपीथः स भक्षस्य कर्ता दशमात्पुरुषादन्वाख्याय शतं ब्राह्मणाः सोमपाः संप्रसर्पन्ति ॥ १३ ॥ दश दशैकैकं चमसं भक्षयन्ति ॥ १४ ।

शतं ब्राह्मणाः सोमयाजिनो वक्ष्यमाणगुणविशिष्टाः सदः प्रसर्पन्ति । एवं सदसो वृद्धिः । भक्षणकाले प्राकृतेषु चमसेषु, भक्षितेषु चापूर्वचमसान् । शतं ब्राह्मणा सोमयाजिन एकैकस्मिन्दश दश सोमयानिनः, आ दशमारपुरुषादविच्छिन्नसोमपीथान्दश पुरुषान्कथयेरन्नीदृग्भूतेति न प्रतिज्ञामात्रेण तेऽपि विद्यावन्तः प्राकृतपरिमाणाधिकाः स्थविष्ठांश्चमसानुन्नयन्ति ॥ १३ ॥ १४ ॥

दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददातीति यथासमाम्नातम् । उक्षाणं ग्रावस्तुते वेहायमानामिवोऽन्नेत्रे बस्तꣳ सुब्रह्मण्याय ॥ (ख०२१) ॥१५॥

प्राकाशौ सुवर्णदर्पणौ । हिरण्यस्रजमुद्गाने । रुक्मं वर्तुलं सुवर्णाभरणं होत्रे । अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठीहीब्रह्मणे । वशां वैत्रावरुणाय । ऋषभ ब्राह्मणाच्छसिने । वाससी नेष्टापोतृभ्याम् | स्थूरीयवाचितमच्छावाकाय । अनड्वाहमग्नीधे । एकगोयुक्तं रथं चमसाध्वर्यवे ददातीत्येके । अन्यत्स्पष्टम् ॥ १५ ॥ ..