पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ सत्याषाढविरचितं श्रौतसूत्रम् .. १३ प्रश्नै

शंपीर्णमासिकी वेदिर्भवेत् । अग्निहोत्रं हुत्वा संसृपां हविर्भिर्यक्ष्य इति संकल्प्य सर्वेषां संसृशं हविः ० इति सर्वेषामाग्नेयमष्टाकपालं हिरण्यं दक्षिणा | आग्नेयस्याऽऽहवनीयस्याऽऽयतन उत्तरस्य गार्हपत्यायतनम् । श्वोभते सारस्वतं चरं वत्सतरी दक्षिणा । श्वोभूते सावित्रं द्वादशकपालं. उपध्वस्तो दक्षिणा, पूर्ववद्विहारः । श्वोभूने पौष्णं चरं श्यामो दक्षिणा । श्वोभूने बाईस्पत्यं चरुं शितिपृष्ठो दक्षिणा । श्वोभूत ऐन्द्रमेकादशकपालमृषभो दक्षिणा । वारुणं दशकपालं महानिरष्टो दक्षिणा । सर्वेषां पूर्वस्याऽऽहवनीयमुत्तरस्य गार्हपत्यम् । तत्प्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः-श्वोभूते परेण सौमिकदेवयजनं दशभिः सप्तभिर्वा सँसृपाँ हविभिनत आग्नेयमष्टाकपालमिति पूर्वं पूर्व देवयजनमध्यवस्यति । यत्र पूर्व आहवनीयस्तरोत्तरो गार्हपत्यः । उत्तमायाः प्राग्यश आह्वनीयो बहिर्गार्हपत्यः (आप० श्री. १८-१०-९) इति ॥ १ ॥ अथाष्टमनवमदशमानां हविषां स्वस्वदिनेषु कंचित्कालविशेषमाह

अथ तया यजते । तस्याꣳ सꣳस्थितायामपराह्णे दशपेयाय दीक्षते ॥ २ ॥ अप्सु दीक्षायाः स्थाने षट्पुण्डरीकां द्वादशपुण्डरीकां वा हिरण्यस्रजं यजमानः प्रतिमुञ्चते ॥ ३ ॥ तदहर्दीक्षितो राजानं क्रीणाति दशभिर्वत्सतरैः साण्डैः ॥ ४॥ न पणते न परिवहति ॥ ५ ॥ क्रयमेवापरं करोति ॥ ६ ॥ पुरस्तादुपसदाꣳ सौम्यं चरुं निर्वपति । अन्तरा त्वाष्ट्रमुपरिष्टाद्वैष्णवम् ॥ ७ ॥

अभिषेचनीयात्सोमयागावै दशपेयः सोमयागः कर्तव्यः । तस्य च संसृव्यागसंबन्धिनि सप्तमेऽहन्येका दीक्षा कर्तव्या । तत ऊर्व त्रिषु दिनेष्पसदः कर्तव्याः । तत्र प्रथमोपसदिन उपसद्यागात्पूर्व सौम्याख्येन संसपाऽष्टमहविषा प्रचरेत् । मध्यमोपसदिने पौर्वाह्निकापराह्निकोपसदोर्मध्ये त्वाष्ट्रेण नवमहविषा प्रचरेत् । तृतीयोपसदिने पौहिणिकापः राह्निकोपसदावनुष्ठायोपरिष्टाद्वैष्णवेन दशमविषा प्रचरेत् । दशपेयतन्त्रमध्ये त्रयाणां हविषामनुष्ठानमापस्तम्बेन स्पष्टीकृतम्--अपराहणे दशपेयस्य तन्त्रं प्रक्रमयतीत्युपक्रम्यैवं पठ्यते- एका दीक्षा । तिन उपसदः । पुरस्तादुपसदार सौम्यं वरं निर्वपति । अन्तरा त्वाष्ट्रमष्टाकपालमुपरिष्टाद्वैष्णवं त्रिकपालम् ( आप० श्री० १८-२०-१९) इति । ननु राजसूये संसृष्शब्दवाच्यान्याग्नेयाष्टाकपालादीनि दश हवींष्याम्नातानि तेष्वटमनवमदशमानि सौम्यत्वाष्ट्रवैष्णवानि । तद्विषयमिदं वाक्यमानायते--पुरस्तादुपसदार सौम्येन प्रचरति । अन्तरा स्वाष्ट्रे । उपरिष्टाद्वैप्णवेन ( तै० वा. १-८-१) इति।