पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

the सत्यापाढावरचितं श्रौतसूत्रम्- १३ प्रो

हꣳ हिन्वन्ति महते सौभगाय । समुद्रं न सुहुतं तस्थिवाꣳसं मर्मज्यन्ते द्वीपिनमप्स्वन्तरित्यवदास्यन्पुरोडाशमभिचरन्स्फ्येन समया विभिन्द्यात् । स्फ्य आश्लिष्येद्यच्चावमार्जेत्तद्विष्णव उरुक्रमायावद्येत् ॥ ३९ ॥

हविधान प्रविश्य मारुतवैश्वदेवयोः प्रचारः। स्फ्येन पुरोडाशं भिन्द्यादित्यादि ॥३९॥

अत्रैते हिरण्ये ददाति । सौवर्णं राजतं मणिं च। यदि पुरस्ताद्दत्ते भवतः ॥ १३.६.४० ॥

"मेदने पुरोडाशे ( शस्य ) कृते नास्ति स्विष्टकृतं, समानं तु स्विष्टकदिकामार्ज। नान्तम् । हिरण्ये सौवर्ण राजतं मणिं च ब्रह्मणे ददाति । यदि पुरस्तानवद्यातदा ॥ १० ॥

माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४१ ॥

माहेन्द्रस्य प्रचरणादि कर्म नित्यम् । अतिग्राह्यहोमाः पूर्ववत् ॥ ४१ ।।

अवभृथादुदेत्यापां नप्त्रे स्वाहेत्यप्सु जुहोति ॥ ४२ ॥ कल्चमसप्रयोगो गुणफलाश्च प्रवर्तन्ते । समानमाऽवभृथात् । अवभृष्टिमनूयाजान्तां विधामानमुथादुदेल्यापां नप्त्रे स्वाहेति होमः । यत्ते प्राणेति पवित्रवत् ॥ ४२ ॥

ऊर्जो नप्त्रे स्वाहेति शुष्के स्थाणौ दर्भस्तम्बे वा ॥ ४३ ॥

जुहोतीस्यनुवर्तते । अवभृथदेशविहारयोरन्तराले होमे दर्भस्तम्बादिषु वा ॥ ४॥

अग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये ॥ ४४ ॥

विहारदेशं प्राप्यापोऽन्वचारिषमित्युपस्थायाग्नय इति गार्हपत्ये जुहोति । ४४ ॥

ऐन्द्रीꣳ सूतवशामनूबन्ध्यामालभते ॥४५॥ तस्या नैवारं पशुपुरोडाशं चतुष्पद्याः सूनाया निर्वपति ॥ ४६ ॥ शकटप्रत्याम्नायो भवति ॥४७॥ संतिष्ठतेऽभिषेचनीयः ॥ ४८ । ॥ (ख. २०)॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने षष्ठः पटलः॥

उदवसानीयादि । इन्द्रदेवत्या सूतषशामनबन्ध्यामालभते । इन्द्राय गोर्वपाया। मेदस इत्यादि । तस्यां नीवारेभ्यः पशुपुरोडाशस्य निर्वापः (एवं पशुपुरोडाशं निरुष्य)