पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६.पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्यास्यासमेतम् । १८३

प्रजापते न त्वदेतानीति ये पात्रेषु लेपास्तैर्नामव्यतिषञ्जनीयौ होमौ जुहोति ॥३३॥ असावामुष्यायणोऽमुष्या असौ पुत्र इति नामनी व्यतिषजति ॥ ३४ ॥

यस्याः पुत्रो राज्ञः(जा) स्यादिति कामयेत तस्या औपासने मिन्ने समुदिते वा तं प्रतिहितं तस्याः पुत्रमन्वारम्भयित्वा पालाशादिपात्रस्थलेपाञ्जह्वां गृहीत्वा-प्रजापते न त्वदेतानीत्यूच मुक्त्वा राजेन्द्रवर्मा राजेन्द्रवर्मणः पुत्रोऽदितिदाया राजेन्द्रचोळ(ल वर्मपुत्रः स्वाहा । एवं द्वितीयहोमः । अथ नामनी व्यतिषजति प्रजापते ० तन्नो अस्त्वित्यन्तमुक्त्वा राजेन्द्रवर्मा राजेन्द्रचोळवर्मणः पुत्रो वयश् स्याम पतयो रयीणा, स्वाहेति. प्रथमा । एवं द्वितीया तन्नो अस्त्वित्यन्तमुक्त्वाऽदितिदाया राजेन्द्रवर्मा पुत्रो बयः स्याम पतयो 'रयीणा स्वाहा, इति ।। ३३ ॥ ३४ ॥

शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः ॥(ख०१९) ॥ परःशताः परःसहस्रा वा ॥ ३५॥

शनःशेपेन : दृष्ट शस्त्रं शौनःशेपं, तद्ध्वर्युहोतारं वाचयेत् । तेन र वरुणपांशादेवैनं मुञ्चति । (ते ब्रा०:१-७-१०) इति ब्राह्मणम् । तत्र ऋक्संख्यां विधत्ते.परःशतं भवति (ते. ब्रां० १-७-१०) इति । परःशतं . शतादधिकम् । ऋक्संख्या चाऽऽपस्तम्बेन · स्पष्टीकृता- शौनशेपमाख्यापयत ऋची गाथामिश्राः परःशताः परःहना वा ( आप० श्री. १८-१९-३०) इति. ॥ ३५ ॥

हिरण्यकशिपावासीनो होताऽनुशꣳसति ॥ ३६ ॥

स्पष्टोऽर्थः ॥ ३६ ॥

हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति । ओमित्यृचः प्रतिगरस्तथेति गाथायाः ॥ ३७॥

शौनाशेपाख्यानकाले वाग्यतो भवेद्यनमानः। ॐ इत्यूचः प्रतिग्ररस्तथेति गाथायाः। हिरण्यकशिपावासीनो · होतारं शंसति । हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृ. जाति ॥ ३७॥

अपवृत्ते शौनःसे( शे )पे हिरण्यकशिपुं होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे ॥ ३८ ॥

अपवृत्ते परिसमाप्ते शौनःशेपे शस्त्रस्य शस्त्रमिति ( शख्ने ) यजमानो हिरण्यक. शिपुं होने हिरण्यकूर्चम (चर्चाव ) ध्वर्यवेऽभिषेचनीयों च स्तमौ ददाति ॥ ३८ ॥

अत्र मारुतेनैकविꣳशतिकपालेन वैश्वदेव्याऽऽमिक्षया प्रचरेत् । एना व्याघ्रं परिषस्वजानाः सिꣳ