पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटक... महादेवशाखिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । १७९

यज्ञस्य योगेनेत्यन्तः । स्थस्याश्वत्रयोपेतत्वं प्रष्टिवाहिनं युनक्ति । तादृशं रथं प्रकारान्तरेण प्रशंसति- त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । द्वौ सव्येष्ठसारथी । षट्सपद्यन्ते । (ते. ब्रां०१-७-९) इति । सव्येष्टेत्पन्न दक्षिणस्थेत्यध्यःहार्यम् । ततः पार्श्वद्धयवर्तिनी द्वौ सारथी संपयेते ॥ २ ॥

विष्णोः क्रमोऽसीति रथमातिष्ठति ॥ ३॥

रथसकाशं गच्छति । यजमान आरोहति रथं सारथिश्च संग(प्र)हातीश्च(च) ॥ १॥

मरुतां प्रसवे जेषमिति प्रयास्यति ॥ ४ ॥

प्रयाति ॥ ४ ॥

प्र ससाहिष इति दाक्षिणतो ब्रह्मा त्रिष्टुभाऽन्वेति ॥ ५ ॥

दक्षिणतो ब्रह्मा गच्छति॥५॥

प्रतिहितोऽन्वारभत इत्येकेषाम् ॥६॥

अन्वारम्भः स्पर्शः । प्रतिहितो राजपुत्रो रथमन्वारभते ॥ ६ ॥

सधनू राजन्यः पुरस्तादुत्तरतो वाऽवस्थितो भवति ॥ ७ ॥ तं जिनात्याप्तं मनः समहमिन्द्रियेणेति ॥८॥

बाणहम्तो राजा पुरस्तादुतरतो वा इषुपातमात्रे तिष्ठसि । तं जिल्वोत्सृष्ट अष्टोs)सौ नितो भवति--आप्तं मनः समहामन्द्रियेणेति मन्त्रेण ॥ ७ ॥ ८॥

तस्मा एतानिषूनस्यति प्रति त्वाऽऽप्तं मनः समहमिन्द्रियेणेति प्रदक्षिणमावर्तते ॥ ९॥

य इघुमात्रे तिष्ठति तस्मै राजन्यायैतानिन्प्रक्षिपेत्-आप्तं मन इति । इषुप्रति (प्रतीषु) मन्त्रावृत्तिः । समह वायणेति प्रदक्षिणमावर्तते ॥ ९ ॥

ऐषु वज्रो वाजसातमस्तेन तौ पुत्रौ वाजसꣳसेदि(यातामि)ति धनुः पत्न्यै प्रयच्छति । धनुरार्त्नि प्रयच्छतीत्येकेषाम् । पत्नी धनुरार्ज्ञोऽ(र्त्नीअ)पनुदतीत्येकेषाम् । अश्वानुपस्पृशतीत्येकेषाम् ॥ १३.६.१० ॥

पत्न्यै प्रददाति । अन्ये पक्षाः शाखान्तरस्थाः ॥ १० ॥

इयदस्यायुरस्यायुर्मे धेहीति राजतमणिं यजमानः प्रतिमुञ्चते ॥ ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् ॥ ११ ॥

अन्यप्रतिविमोकनिवृत्त्यर्थे यजमानग्रहणम् । रजतताम्रसौवर्णान्मणीन्प्रतिमुञ्चते । पृथकून्यपक्षे तु मन्त्रावृत्तिरिति भाष्यकृत् ।। ११ ॥