पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ सत्यापाढविरचितं श्रौतसूत्रम्-: . [१३.प्रभे

कृष्णविषाणया ताऱ्यांदिवासांसि विस्रंसयत्यध्वर्युः । तान्युत्करे त्यजति । अति दिवस्पाहीति । अस्मिन्काले शस्त्रप्रतिगरप्राप्तिर्यथा स्यात्तथा कार्या | अभिषिच्यमानस्याङ्गेषु य उदकलेपास्तान्पात्रैरुन्माष्टर्यध्वर्युः । यो योऽभिषिञ्चतीति भाष्यकृत् ॥ ३९ ॥

इन्द्राय स्वाहेति षडुत्तराणि पार्थानि हुत्वाऽद्भ्यः स्वाहेति षडुत्तरा भूतानामवेष्टीर्जुहोति ॥ ३६॥

प्रतिगरं पार्थान्यवेष्टीश्च जुहोति । इन्द्राय स्वाहेति षट्पार्थानि । अद्भयः स्वाहेति षड्भूतानामवेष्टीः । अथ प्रतिगरः-उक्थं वाचीत्यन्तम् ॥ ३९ ॥

रुद्र यत्ते क्रयी परं नामेति यो द्रोणे शेषस्तमुदङ्परेत्याऽऽग्नीध्रे जुहोति ॥ ( ख० १६ )॥ ३७॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने पञ्चमः पटलः ॥

अत्र स्वाहाकारोऽध्याहृतः । यदग्नये स्विष्टकृतेऽवद्यति भागधेयेनैव तदुई समर्धेयतीति श्रुतत्वाद्बुद्रस्योच्छेषणभागत्वम् । तत्रैव कंचिद्विशेषं विधत्ते-उदपरेत्याऽऽनीधे जुहोति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते (ते. बा.१७-८ ) इति । अत्र वा परेकं जुहुयात् । यो भायों कामयेत राष्ट्रमस्मै प्रजा स्यादिति तस्या औपासने प्रतिहितमारम्भयित्वा ये पात्रेषु लेपा व्यवसृतास्तेभ्यो नामव्यतिषअनीयौ होमी जुहुयात् । प्रजापते न स्वदेतानीति । असावमुष्य पुत्रोऽमुण्या असौ पुत्र इति नामनी व्यतिषजति । नामानीत्येके ( आप० श्री० १८-१६-१९) इत्यापस्तम्बीये विशेषः ॥ ३७॥ इति सत्यापादहिरण्यकेशिसूत्रव्याख्याचा महादेवशास्त्रिसंकलितायां प्रयोगच न्द्रिकायां प्रयोदशप्रश्ने पञ्चमः पटलः।

13.6 अथ त्रयोदशप्रश्ने षष्ठः पटलः ॥

अथ रथेन विजयोऽभिधीयते--

इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ॥ १ ॥

वाजपेये व्याख्यातम् ॥ १ ॥

मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २ ॥

१ यस्मिन् पा। जन