पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटेल ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १७७

अमृतमसीति रजतꣳ रुक्मं व्याघ्रचर्मण्युपोहति । अधस्तात्पादयोर्दिद्योन्मा पाहीति शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति॥१३.५.३०॥

उपोहति न्याघ्रचर्मण्यावेष्टयति । तत (तोऽ)यस्तात्पादयोस्तदुपोहति शतगुञ्जापरिमित सौवणे रुक्मं शतच्छिद्र यजमानाय शिरसि निदधाति असर्जि स त्यादि ततो माहेन्द्र

सोमो राजा वरुण इत्येताभ्यो देवताभ्यः प्रोच्याग्नये स्वाहेति षट्पूर्वाणि पार्थानि हुत्वा पृथिव्यै स्वाहेति षट्पूर्वा भूतानामवेष्टीर्जुहोति ॥ ३१॥

प्रोच्याभिमन्च्य : लुतोऽप्रय स्वाहेति षट् पार्यानि जुहोति । बृहस्पतये स्वाहेत्यनतानि । पृथिव्य स्वाहेति. षट्भूतानामवेष्टीनक्षत्रेभ्यः स्वाहेत्यन्तैरूलबाई तिष्ठन्त आ(मा)सन्याम् । तदुक्तंमापस्तम्बेन-ऊर्ध्वबाहुं तिष्ठन्तं माहेन्द्रस्य स्तोत्रं प्रत्यभिषि. वति ( आप. श्री० १८-१५-१० ) इति ॥ ३१ ॥

सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्यध्वर्युर्वाऽऽहुतिं जुहूꣳ (ह्वतꣳ) हूयमानेऽभिषिञ्चति ॥ ३२ ॥ पर्णमयेन पुरस्तादध्वर्युः । एवमितरे । औदुम्बरेण दक्षिणतो ब्रह्मा। राजन्यो वा । आश्वत्थेन पश्चाद्वैश्यः । नैयग्रोधेनोत्तरतो जन्यमित्रम् । स्यादुपरिष्टाद्देवनस्याऽऽसिञ्चति ॥ ३३ ॥

सोमो राजा ० मरुतामोनसेत्यनेन पालाशेन पुरस्तात्पुरःस्थितोऽभिषिञ्चति । अनेन मन्त्रेणौदुम्बरेण दक्षिणतो ब्रह्मा । आश्वत्थेन पश्चाद्वैश्यः । तेन नैयग्रोधेन जन्य उत्तरतः । जन्यः मित्रं सर्वदा नपुंसकम् | सखेत्यर्थः ॥ ३२ ॥ ३३ ॥

क्षत्त्राणां क्षत्त्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते ॥ ३४ ॥

अध्वर्युरिति शेषः ॥ ३४ ॥

अति दिवस्पाहीति कृष्णविषाणया राजसूयिकाति वासाꣳसि विवृत्य समाववृत्रन्नधरागुदीचीरिति येऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति । तान्पात्रैः समुन्मार्ष्टि ॥ ३५ ॥