५७६ सत्यापाविरचितं श्रौतसूत्रम्- १३ प्रश्
नेछेति । मनसा चानुप्रक्रामति । ( आप० श्री० १४-१५-२) इति । अध्वर्युरनुकामति मनसा, न कर्मणेत्यर्थः ॥ २४ ॥
अत्र मारुतमेकविꣳशतिकपालमेके समामनन्ति ॥ २५ ॥
अत्र मारुतवैश्वदेव्योर्निर्वापायासन्नाभिमर्शनान्ते प्राङ्माहेन्द्रादपां ग्रहानित्यादि मनसाऽनुक्रामान्तं कृत्वा प्राङ्नाहेन्द्रादित्यस्मिन्नभिवास्यापा ग्रहानित्यादि मनसाऽनुकामान्तम् । आप्यलेपनिनयनाद्यासन्नाभिमर्शनान्तं, माध्यंदिनं चेत्यस्मिन्पक्षे सवनीयैः सहाभिवासनान्ते, अपां ग्रहानित्यादि मनसाऽनुक्रामान्तम् । ततः सौमिकं वैष्णव्योंपस्थानान्तं कृत्वा. सवनायप्रचरणादि माहेन्द्रात्प्राक् । तत आसन्दीप्रतिष्ठापनादि प्राक्पाहोमात्कृत्वा मारुतं पुरोडाशं तूष्णी स्थापयित्वा तं बर्हिषदं कृत्वना व्याघमिति मन्त्रेण स्फ्येन पुरोडाशं मिनत्ति । यत्स्फ्य आश्लिष्यति यच्च प्रतिशीर्यते तद्विष्णवे शिपिवि. टाय जुहोति, ( आप० श्री. १८-१५-४ ) इत्यापस्तम्बः । अमिचरत अ ( तोऽ) नभिचरतो न च्छेदनहोमौ ॥ २१ ।।
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्म विवेष्टयति ॥ २६ ॥
अग्रेण प्रशास्तुधिष्णिय खादिरीमौदुम्बरी वाऽऽसन्दी प्रतिष्ठाप्येत्यापस्तम्बः । प्रशास्वर्षिष्णियस्य पुरस्तादयेणोक्तलक्षणामासन्दी प्रतिष्ठाप्य सोमस्य विपिरसि० . भूयादिति शार्दलचर्माऽऽस्तूंणाति ॥ २६ ॥
अग्रे सदो दक्षिणे द्वारबाहौ तद्यजमान आरोहति । अवेष्टा दन्दशूका इति । आपः केशवापाय प्रयच्छति ॥ (ख० १५)॥ लोहायसं प्रयच्छतीत्येकेषाम् ॥ २७ ॥
अग्रेसदो दक्षिणे द्वारवाही तदासन्दीमारोहति यजमानः । स्पष्टमन्यम् ॥ २७ ॥
निरस्तं नमुचेः शिर इति सीसं क्लीबाय विध्यति चैनꣳ सीसं क्लीबेन विध्यतीत्येकेषाम् ॥ २८ ॥
नपुंसकाय प्रयच्छति सीस लोहमयम् ॥ २८ ॥
प्रत्यस्तं नमुचेः शिर इति वाऽप उपस्पृश्य ॥ २९ ॥
क्षेत्र स्पष्टमाहाऽऽपस्तम्बः ---तामारोहन्यजमानोऽपेष्टा दन्दशूका इति दक्षिणेन पदा । सीन पण्डकाय प्रत्यस्यति । निरस्तं नमुचे शिर इति सव्येन लोहितायसं केशवापाय तो बहिदि निरस्वतः । अप्रामुपस्पर्शनं तयोः ॥ २९ ॥ ..