पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः ] . महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १७५

न्द्रेणोत्पुनामि राजसूयाय चितानाः, अमृता वो अमृतेन स्वाहा राजसूयाय चितानां इति त्रिमिमन्त्रैः ॥ २० ॥

सधमादोद्युम्निनीरूर्ज एता इति चतुर्षु पात्रेषु व्यानयति ॥ (ख०१४ ) ॥ पालाश औदुम्बर आश्वत्थे नैयग्रोधेऽवशेषं द्रोणे करोति ॥ २१ ॥

सधमादो० मातृतमास्वन्त इ(रि )त्यन्तः । पालाशादिषु पात्रेषु क्षिपति । प्रतिपात्रं मन्त्रावृत्तिन्यपृथक्त्वात् । अवशेष द्रोणे करोति ।। २१ ॥

तोक्मो( रौक्म औ )दुम्बरं दधि च यजमानं भोजयति ॥२२॥

स्पष्टोऽर्थः ॥ २२ ॥

एकशतेन दर्भपुञ्जीलैराङ्क्ते। शतेनेत्येकेषाम् । पञ्चाशता दक्षिणमक्ष्येकपञ्चाशतोत्तरमभ्यज्य क्षत्रस्योल्बमसीति तृपाणां वृक्षाणां वासो यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति पाण्डुरमुष्णीषम्। तृतीयꣳ श्वेतपाण्डुरमित्याचक्षते । अप उपस्पर्शयित्वाऽऽविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिःसदसमभ्युदानयति ॥ २३ ॥

'दर्भञ्जीलैरभ्यज्य क्षत्रस्योल्बमसीति तार्थं क्षत्रस्य योनिरसीति पाण्डुवासंघ परिधत्ते । अश्वा त्रीणि वासांसि, द्वे परिधानार्थे पाण्डुरं तार्य चैकमुत्तरीय च । • अथवा शिरोष्णीषमेव कृत्वाऽर्थनमेकशतेन ( शतेन वा ) दर्भ जीलैः पश्यति । एक शतेनाऽऽङ्क्ते यजमानमेव । पञ्चाशता दक्षिणमाक्षि युगपदेकपश्चाशता सव्यम् , इत्यन्यथा क्रमः | आग्नीघ्रागार एतानि कर्माणि कुर्यात् । अध्वर्युरप उपस्शति आविद इत्येवं संज्ञानाविन्नो अभिरित्यादीन्वाचयन्यजमानमध्वर्युबहिरुदानयति ॥ २३ ॥

एष वः कुरवो राजेत्यावेदयति । मनसाऽनुप्रक्रामति । मनसोर्ध्वमनूज्जिहीते ॥ २४ ॥

राज्ञो नामग्रहणमसाविति । आविन्नोऽयं राजेन्द्रवर्मणः पुत्रो राजेन्द्रचोलायनोऽस्य विश्वस्मिन्राष्ट्र इत्यादि । अत्राप्यापस्तम्बे विशेष:-इन्द्रस्य वजोऽसीति धनुर्यजमानाय प्रयच्छति । शत्रुवाधनाः स्थति त्रीबाणावतः । पात मा प्रत्यश्चमिति प्रदीयमा. माननुमन्त्रयते । पात प्राञ्चं पात प्रत्यछ पातोदश्चमिति प्रयच्छन्नध्वर्युर्जपति । मित्रोऽ. सीति दक्षिणं बाहुं यजमान उद्यच्छते । वरुणोऽसीति सव्यम् । एतद्वा विपरीतम् । हिरण्यवर्णावित्युद्यतावनिमन्त्रयते । अर्थनं पञ्चभिर्दिशो व्यास्थापयति । समिधमाति