पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ .. सत्यापाठविरचितं श्रौतसूत्रम्-.: [१२ प्रश्ने

देवी राष्ट्र दत्त राष्ट्रममुष्मैं वत्तेति राज्ञो नामग्नहणम् ' राजेन्द्रवर्मणो दत्तेति गृहत्विाऽ. न्यत्र निदधाति । एवमुत्तराणि । येन जुहोति तेन गृह्णाति ॥ १०.१४ ॥

अपो देवीर्मधुमतीरगृह्णन्निति गृहीत्वाऽभिमन्त्रयते ॥ १५ ॥

समुदगले वा पुनदो यथा शोणादिस्तदन्यतमजले, अपां. पतिरस्यपो देवी ० दत्त स्वाहा । प्रतिस्रोत ऊर्मियुद्धजले वृषाऽस्यूमिरपो देवी० । अनुस्रोत ऊर्मिनले वृषसेनोऽस्यपो देवी । कूपजले व्रजक्षितः स्थापो देवी० । प्रतीपजले, अन्यज्जले वा मरु. तामोजः स्थापो देवी । उत्स्यन्दितजले प्रभावतीः (री:) स्थापो. देवी० परिवाहि. नदीजले हिरण्याः स्थापो देवी । आतपति वर्षजले सूर्यवर्चसः स्थापो देवी० । प्रस्त्रवजले सूर्यत्वचसः स्थापो देवी । स्थावरजले मान्दाः स्थापो देवी । ग्रुष्टनले वस्याः (श्या: ) स्थापी देवी० । [अ]वस्याऽ( श्या )योदके का(वा)शाः स्थापो देवी । गोगर्भजले शक्करी: स्थापो देवी० । पयसि विश्वभूतः स्थापो देवी० । दधनि जनभूतः स्थापो देवी० । घृते अमेस्तेजस्याः स्थापो देवी । मधुनि अपामोषधीनां रसः स्थापो देवी ० । इति च गृहीत्वाऽभिमन्त्रयत इत्यर्थः ॥ १५ ॥

देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमिति वैतसे द्रोणे समवनयति ॥ १६ ॥

तसे द्रोणे कलशाकृती देवीराप० वन्वना इत्यन्तेन ग्रहान्समवनयति । तथा चाक हाऽऽपस्तम्बः-देवीराप इति वैतसे सते ग्रहान्समवनीय, ( आप० श्री०१८-१३.२१.) इति । अप्सु जातो वृक्षविशेषो वेतसस्तेन निर्मित द्रोणकलशसदृशं पात्रं सुतं 'तस्मिन्सते वायव्यगेंहीतास्ता अपोऽवनयेदित्यर्थः ॥ १६ ॥

अत्राभिमन्त्रणमेके समामनन्ति ॥ १७॥

शाखान्तरोक्तो विकल्पः ॥ १७ ॥

अनाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्णियं ब्राह्मणाच्छꣳसिनश्च सादयति ॥ १८॥ अपरेण होत्रीयमुपसादयतीत्येकेषाम् ॥ १९ ॥

दधतीरित्यन्तः । अन्तरा होतुधिष्णियं ब्राह्मणाच्छ ५सिनश्च सादयति ॥१८॥१९॥

अनिभृष्टमसीति शतातृण्णꣳ सौवर्णꣳ रुक्ममादाय शुक्रा वः शुक्रेणोत्पुनामीति तेन त्रिरुत्पुनाति ॥ १३.५.२० ॥

अनिभृष्टमासि० दात्रमसीत्यन्तेन शतमानं हिरण्यं सतेऽवधायेत्यापस्तम्बः । तेन शेतमानेन शुका व शुक्रेणोत्पुनामि० चितानाः, इत्यन्तेनोत्पुनाति सकृत् । त्रिरिति भाष्यकृत् । तदा शुक्रा वः शुक्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः, चन्द्रा वश्च 3. -