पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटर] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमैतम् । १७

सीति योऽन्वीपम् । प्रहावरीः स्थेति स्थावरीणाम् । याः स्थानं न प्रवहन्ति परिवाहिणी: स्थेति स्रवन्तीनाम् । या आप उच्छेरते परिणतिं ब्रुवते । व्रजक्षितः स्थेति कूप्यानाम् । मरुतामोजसः स्थेति ह्रादुनीनाम् । सूर्यवर्चसः स्थेत्यातपतिवर्ष्याणाम् । सूर्यत्वचसः स्थेति यासु रूपाणि परिदृश्यन्ते । मान्दाः स्थेति स्थावराणां या वा मन्दमिष स्यन्दन्ते । वाशाः स्थेति पृष्ठानाम् । शक्करी स्थेति गोरुल्ब्या(तुल्या)नाम् । विश्वभृतः स्थेति पयसः। जनभृतः स्थेति दध्नः। अग्नेस्तेजस्याः स्थेति घृतस्य । श्रविष्ठाः स्थानाधृष्टा इति वा। अपामोषधीनाꣳ रसः स्थेति मधुनः षोडश सप्तदश वा गृह्णाति ॥ १४ ॥

अभिवासितैः सुगन्धितैर्वायव्यैर्वृक्षोद्भूतैर्ग्रहोर्ध्वमुखानि वायव्यानि तैरपां महान्गृह्णा. तीति वचनात् । अभिषेकार्थं वायव्यानि षोडश सप्तदश वा शाखान्तरगतेनैकेन मन्त्रेण सह षोडशसंख्यामपि षोडशभिर्गृह्णाति(तै ब्रा० १-७-५) इत्यादौ द्रष्टन्याः । अर्धेत इत्यादीनां शोडशमन्त्राणां होमशेषत्वं ग्रहणशेषत्वं च पूर्व विहितम् । अर्थतः स्थति जुहोति, वहन्तीनां गृह्णाति, (३० वा. १-७-५) इत्यभिधानात् । तत्रोभयत्रावस्थितां घोडशसंख्या समस्य प्रशंसति-घोडशभिर्जुहोति षोडशभिगृह्णाति '(तैना १-७-५) इत्यादिना । यद्वा-वायव्यानि सप्तदश वा करोति यज्ञियवृक्षवक्ष्यमाणस्तत्तद्देशादानीय गृह्णाति सरस्वतीजलं वहन्तीनां जलं समुद्रनलं यतः कुतश्चिन्नद्यां पुरुषः पशुर्वा तिष्ठति तत्र प्रतिस्रोतं य ऊर्मियुष्यति तस्या भूमेर्जलमानयति पृथक् पृथक् । कूपस्था अप आनयति प्रतिस्रोतसजलं च प्रयत्नेनाऽऽनयेत् । यत्र कुत्रचिद्गता आपस्तत्रैव स्यन्दन्ति ता आनयन्ति । महानदीनां समीरेद्य( पेय )त्र नदी महानद्यां पतति तस्या आनयति । आदित्ये दृश्यमाने यदा वर्षति तदा वर्षजलमानयति । अशोष्यजलमानयति । यत्र कुत्रचिद्रसमलमानयति । गोगोंदकं पयो दाध घृतं च मधु माक्षिकं च । . आग्रीधमण्डपसमीपे ग्रहग्रहणं क्रमेणोच्यते-अर्थेतः स्थापो देवीमधुमतीरित्यादि राष्ट्रदाः स्थ राष्ट्र दत्त स्वाहा, इति सारस्वतोदके । आज्यहोमस्याभिधारणरूपत्वात् । उक्तजले वायव्येनाऽऽज्येन जुहोति । तस्मिञ्जले वायव्येन गृह्णाति । अर्थेतः स्थापो