पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ · सत्यापादविरचितं श्रौतसूत्रम्- .१३प्रश्ने -

आनडिति मन्त्रान्तः । मुखमार्जनं तु द्वाभ्यां विमृष्टे ( तै० ब्रा० १-७४)

विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः क्रामति ॥६॥

वाजपेये रथसमीपगमने व्याख्यातम् ॥ ६॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता मारुतमेकविꣳशतिकपालं निर्वपति ॥७॥ गणैः कपालान्युपदधाति ॥ ८॥ आरण्ये[ना]नुवाक्येन गणेन मध्य उपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्षां करोति ॥ ९॥

" - पुरोडाशस्विष्टकदादि, यजमानस्य थे दधिधर्मस्य लोपः | महारा। बुद्ध्वा, इत्यादि । पात्रासादगकालेऽतिग्राह्याणामप्रयोगः । न षोडशीपात्रे, प्राङ्माहेन्द्रात्कृत्वा मारुतमेकविशतिकपालं निर्वपति । वैश्वदेवी चाऽऽमिक्षा । तस्याश्च कर्म- एकवि शतिः कपालानि स्फ्यश्च द्वंद्वं, इत्यादि । सननीयानामुत्कर्षपक्षे सवनीयानां (न) शाखा स्यात्, शाखा, इतरथा शाखाहरणादि · मरुभ्यो जुष्टंछ कपालोपधानकाले ईचा. न्याङ्वैतादृङ्च प्रतिङ्च मितासश्च समितासश्चः समरा इति - सप्तकपालानि ध्वनिश्च ध्वान्तश्च ध्वनयश्च ध्वनय सश्च निलिम्पश्च विलिम्पश्च विक्षिप इति सप्त। ध्रुवमसीत्यादि सप्त । एवमेकविंशतिमुपधाय वैश्वदेव्या दोहनम् । पुरोड़ाशमधिनित्य लौकिकदध्यानयनम् । अन्तरित सं ब्रह्मणा इत्यादि ॥ ७ ॥ ८ ॥९॥

अभिवासितैर्वायव्यैरपां ग्रहान्गृह्णाति ॥ १३.५.१० ॥ देवीरापो अपांनपद्राष्ट्रदास्थ राष्ट्रं दत्त स्वाहेति सारस्वतीष्वप्सु हुत्वैतेनैव गृह्णाति ॥ ११ ॥ अर्थेतः स्थेति वा। एवमितरासु येन येन जुहोति तेन तेन गृह्णाति ॥ १२ ॥राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहेति होमार्थेऽनुषजति । राष्ट्रदाः स्थ राष्ट्रममुष्मै दत्तेति गृह्णाति।१३॥ पुरुषे पशौ वाऽभ्यवेतोऽपां पतिरसीति ॥(ख०)१३॥समुद्रियाः सैन्धवीर्वा प्रतीपमन्य ऊर्मिः पतति । अन्वीपमन्यो वृषाऽस्यूर्मीरिति यः प्रतीपं तं गृह्णाति । वृषसेनोऽ