पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढावरचितं श्रौतसूत्रम्- १३ प्रश्ने

अस्मिन्पक्षे च ब्रह्मा द्विवचनेन, इतरे बहुवचनोहः शितिपृष्ठगवाञ्चश्वेतगोश्वेतवत्सा इति । रुद्राय गां वरुणायाश्च० अन्यतरस्य च न बार्हस्पत्यस्य का विस्मरणे पृथगिज्यायां पुनः श्वेता धेनुः श्वेतवत्सा दीयते । पत्नीसंयाजान्ता धारयति धौवमाज्यमित्यादि, उत्तरेण बहिः प्राग्वंशमित्यादि सनीहारप्रस्थापनान्तमिति ॥ २२ ॥ २३ ॥ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३०॥ . इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां त्रयोदशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

13.5 अथ त्रयोदशप्रश्ने पञ्चमः पटलः ।

अथ द्वितीयस्याभिषेचनीयाख्यस्य सोमयागस्य प्रयोगोऽभिधास्यते । तत्राभिषेचनीयस्य चोदकप्राप्तां दीक्षामाह -

तथा दीक्षाः प्रवर्धयन्ति(न्त्य) अभिषेचनीयस्य । यथा दशरात्रे शिष्टे संवत्सरस्य दशपेयो भविष्यति ॥१॥

तत्कालः कात्यायनसूत्रे दर्शितः फाल्गुनीपक्षे यजनीयेऽभिषेचनीयाय दीक्षते, ( का० श्री० १५-३-४९ ) इति । फाल्गुनी(न)पौर्णमासी(स्या) दुपरिष्वादमावास्यायामभिषेचनीयस्य दीक्षा । ततःप्रभृत्यागामिन्याः फाल्गुन्याः पौर्णमास्या उपरिष्टाद्वितीयायामभिषेचनीयस्य प्रायणीया यथा स्यादेवं दीक्षावृद्धिः । भाष्यकारस्तुतैष्यां पौर्णमास्यामभिषेचनीयस्य दीक्षाः संवत्सरमागामिमाघशुक्ले प्रायणीया स्यादेव दीक्षावृद्धिरिति व्याचष्टे । प्रथमरात्रिवर्जमन्यासु रात्रिषु अग्ने स्व५ सुजागृहीत्यादिदीक्षितधर्माः प्रवर्तन्ते । सर्वत्र यवा (ग)वतं पयसि वा अपयेत् ॥ १॥

सह सोमौ क्रीणाति । अभिषेचनीयाय दशपेयाय चार्धं राज्ञः पुरोहितस्य ब्रह्मणो वा दशपेयार्थं निदधाति ॥२॥

उक्तकाले प्रायणीयया प्रचर्याभिषेचनीयस्य दशपेयेन सह सोमक्रयः । पदपसिहणमुभयाथै, तत्संग्रहेषु निदधाति इहार्धाक्षाञ्जनम् । अर्धेन दशय उभयार्थ सोमफलमाहृत्यानहेन प्रयोग:- सोमं क्रीत्वा फलान्यपि तयैव सोम ते फ्रीणामि, गवा ते क्रीणामि, तस्या आत्मा० भूयो वा अदः ० पश्चाधिकन पञ्चशतगोभिस्ते क्रीणानीति अस्मे ज्योतिः, द्वे ऊर्णास्तुके एकाभिषेचनीयस्यैका दंशपेयस्यायेण प्राग्वंश स्थापयति । अच्छिद्रपत्रः प्रजा इत्युपावहृत्य विभज्याधै सोमस्य फलानो च बद्ध्वा पुरोहितस्य