पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसकालतप्रयोग चन्द्रिकाव्याख्यासमेतम् । १६९

मैत्रः स यदा शृतः स्यादथ तं मैत्रपात्रमुपरिष्टादवदधाति ॥ २३ ॥ तस्मिन्पवित्रेऽव धाय स्वयंविलीनमासिञ्चति ॥ २४ ॥ तस्मिन्पवित्रवत्याज्ये स्थवीयस्तण्डुलानावपति ॥ २५ ॥ तावुत्तराधरौ सह शृतौ करोति ॥ २६ ॥ धर्ममात्रꣳ श्रपणमर्धꣳ स्वयंदिनं बर्हिः स्वयंकृत इध्मो निम्नमध्यवस्यति । सा स्वयंकृता वेदिर्भवति । वेद्याः करोति । अर्धꣳ स्वयंकृतं भवति । अर्धं बर्हिषो दाति । अर्धं स्वयंदिनमुपसंनह्यति । अर्धमिध्मं करोति ॥ २७ ॥ अपि वा स्वयंकृता वेदिर्भवति । संलोभ्यं (प्यं) बर्हिः संचार्ये(य्ये)ध्मः ॥ २८॥ प्रचरणकाले बार्हस्पत्येन प्रचर्य मैत्रेण प्रचरति ॥ २९॥ इतरथा वा । शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा। अश्वो मैत्रस्य । व्युप्तवहो वा । सा चैव श्वेता श्वेतवत्सा दक्षिणा ॥(ख०१२)॥ १३.४.३०॥

इति सत्याषाढहिरण्यकशिसूत्रे त्रयोदशप्रश्ने चतुर्थः पटलः ।

निर्वपणकाले बृहस्पतये जुष्टं मित्राय जुष्टं निष्फलीकृतास्तण्डुला यथाभाग ध्यावतेथामिति विभागः । विपिनक्ति काश्छिन्नानकर्णानच्छिन्नान्दोदिष्ठाक्षुद्रतरान्स्थविष्ठान्स्थूलतरान् । एवं विविध्य पृथक् पृथक् पात्रे निधाय धृष्टयादानादि, ध्रुवोऽसीति बार्हस्पत्यमुपधाय मैत्रमुपद्धाति । श्वेतायै श्वेतवत्साथै पय आनयति, उहेनोत्पूय धर्मोऽसीति बार्हस्पत्य चरुमधिश्रयति स्थाल्यां पयसि क्षिपतीत्यर्थः । ईपद्यदा श्रितस्तदा मन्त्रेण दारुपात्रेणापिदधाति । उहेन स्वयंविलीनमाज्यमुत्पूय मैत्रपात्रेऽवनयेदेकपाश्रेणोदकमप्यानीय तस्मिन्काले धर्मोऽसीतीतरानावपत्यकर्णास्तावुत्तराधरौ करोति बाई स्पत्यमधस्तान्मत्रपरिष्टाद्रज्जभिः संवेष्टय मृदा प्रलिप्योत्तराधरकरणमेवं सह शृती भवतः । अन्तरित० अविदहन्त० बार्हस्पत्यमासाद्य मैत्रमासादयति । अयं यज्ञो. ममाग्ने० पञ्चहोता. इत्याद्येवं प्रचरति । प्रधानयागः । दक्षिणाकाले श्वेतपृष्ठं गामश्वं वाऽ तदि स्थापयित्वा सहस्रधारावुत्सावीयमाणी ते दनः पृथिवीमन्तरिक्षं दिवं च तैः ; शितिपृष्ठगवान्वन्धतगौ(गवी वेतवत्सैरतितराणि मृत्युमिति । केचिद्विवचनेनोहमिच्छन्ति ।