पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

तत्स्वयं विलीनमाज्यं भवति' ( आप० श्री० १८-११-६ ) इति । आनेण फलपुष्परसेन लेपितायां (ते) इतौ यत्पय आतञ्चनमन्तरेणैव मूर्त दधि भवति तच्च बदरादिफलसंयोगेन परिवहति तक्रवत्परितः क्षरति । तदिदं स्वयंमथितम् । नात्र मृद्भाण्डे पाकः कित्वाश्वत्थे पात्रे चतुःखक्तौ न तु वर्तुले । तच्च पात्रं यया कया च्छिन्नशाखया न कर्तव्यं किंतु वाय्वाभिघातेन स्वयमेव पतितया निष्पादनीयमिति । एवं कृत्वा वसदित्येके ॥ १५ ॥ १६ ॥ १७ ।। १८ ॥

तैष्यां पौर्णमास्यामभिषेचनीयायोक्थ्याय दीक्षाः प्रवर्तयन्ति ॥ १९॥

तदिदमापस्तम्बेन स्पष्टीकृतम्---श्वोभूतेऽभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रक्रमयति, ( आप० श्री. १८-११-७) इति । श्वोभूतेऽग्निहोत्र हुत्वाऽभिषेचनीयेन यक्ष्य इत्युक्त्वा विद्युत् । केचिदिहापि वृतानामपि वरणमिच्छन्ति । तन्त्रपक्षे तु कर्मणि कर्माण पक्षेऽस्मिन्वरुणदेवतोपस्थानान्तं, न समारोपणम् , आज्यं पशव इत्यादि संभारयजूषि हुत्वा सोमपरिवेषणं फलानामपि पवित्रवत्फलचमसप्रयोगः । अभिषेचनीयदशपेययोः पर्याप्तमाहरति । न सप्तहोता । केचिदिच्छन्ति । दीक्षार्थत्वात् । स्वे दक्ष इत्युपस्थानम् ॥ १९ ॥

मैत्राबार्हस्पत्यं दीक्षणीयं भवति ॥ १३.४.२० ॥

"मैत्राबार्हस्पत्या दक्षिणीया सा पत्नीसयाजान्ता समाप्यते ॥ २० ॥

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ॥ (ख.११) ॥ २१॥

अन्वाधानादि पौर्णमासतन्त्रं स्वयंदिनं वहिः । अस्यादिना न छिनत्ति । स्वयंच्छिन्ना. नाहरति । स्वयंकृतश्चेष्मश्च तथैव । तयोः सह संनहनादयः क्रियन्ते । शुल्बास्तरणादि बर्हिस्तथैवेध्मस्य पात्रसंसादनकाले बार्हस्पत्यचरुपात्रं मैत्रं दारुपात्रं स्फ्यश्च द्वंद्वं प्रकृति वदन्यानि ॥ २१ ॥

मैत्रं चरुं निर्वपणकाले बृहस्पतये निरुप्य मित्राय निर्वपतीति । यथा वा त्रिष्फलीकृतेषु विभागमन्त्रेण कर्णाꣳश्चाकर्णाꣳश्च । तण्डुलान्विविचन्ति । क्षोदिष्ठाꣳश्च स्थविष्ठाꣳश्चेत्येकेषाम् ॥ २२ ॥ ये कर्णाः स पयसि बार्हस्पत्यः । येऽकर्णाः स आज्ये