पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पंटलंः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १६७

त्रयश्चर्ममया बाणवन्तो दक्षिणा ॥ १३ ॥

पालाग ( क ) लो नाम दूतः । तथैव कात्यायनः पालाग ( क ) लस्थाने दूतशब्द प्रयुक्तवान् । चक्षुर्गृहीतं जुषाणोऽध्वाऽऽज्यस्य वेविति दूतस्य ' ( का. श्री. १५--३-१३) इति । आपस्तम्बेन तु यूपविशेषपरत्वेन व्याख्यातः । अध्वने स्वाहा, इति पालाग ( क ) लस्य गृहे जुहोत्यनृतदूतं ब्रुवते (आप० श्री० १८-१०- २५) इति । पालाग ( क ) लमनतवादिन दूतमिति ब्रुवत आचार्या इत्यर्थः । वयश्चर्ममया इषुधयो वाणवन्तो धनुर्वा वेत्रवेष्टितमित्यापस्तम्बः ॥ ११ ॥ १२ ॥ १३ ॥

ऐन्द्रमुत्तमं यजमानस्य गृहे निर्वपति । अन्वहमेके ब्रुवते । इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं (प्रति ) निर्वपति । इन्द्रायाꣳहोमुचे । यन्नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ॥ १४ ॥

होमे कृते समारोप्याग्नीस्वगृहं गत्वा-ऐन्द्रकर्म, मथित्वाऽऽयतने निधाय, इष्टया यक्ष्ये । अमावास्यातन्त्रम् । इन्द्राय सुत्राम्गे जुष्टं० इन्द्राया होमुचे जुष्टं । सूक्तवाके होताऽनुवर्तयत्ययं नो राजेति । इदं याजुषं होत्रम् । सूत्रान्तरे तु नारिष्ठान्हुत्वाऽयं नो राजेत्यध्वर्युर्नपतीति ऋषभो दक्षिणा । निष्कः कवचमित्येके ।। १४ ।

स्वयमवपन्नाया अश्वत्थशाखायै मैत्रं पात्रं चतु:स्रक्ति करोति ॥ १५ ॥ श्वेतां श्वेतवत्सामाम्रस्य दृतौ दुहन्ति । तत्स्वयंमूर्तꣳ संयोगेन परिवहति ॥ १६ ॥ तत्स्वयंमथितमातपे विषजन्ति ॥ १७ ॥ तत्स्वयं विलीनमाज्यं भवति ॥ १८ ॥

ऐन्द्रकर्मणि समाप्ते स्वयमय५न्नाया अश्वत्थशाखायाः स्वयंभन्नाया अश्वस्थ शाखायाः स्थविष्ठमेकं मैत्रस्य चरोः पात्रं करोति । चतुःस्रक्ति चमसाकृति । आम्रस्त्ये ( स्य) हती दुहन्ति गाम् । अमथितपूर्वे दृती, आने वा दृतौ । श्वेतवत्सयुक्ता श्वेता गौः । तत्स्वयंमृत संयोगेन परिवहति प्रापयति । तत्स्वयंमथितमातपे विषन्ति । तत्वयं विलीनमाज्यं भवति । इति । तदिदमापस्तम्बेन स्पष्टीकृतम्-श्वेतां श्वेतवत्सां गामाम्रस्य इतौ दुहन्ति तत्स्वयंमूर्ते संयोगेन परिवहति तत्स्वयंमथितमातपे विषजन्ति