पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] - महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १६५

स्वस्वायतनेषु निधायोपावरोह्य(हणम्) । एतासामिष्टीनां यरिम-गृहे निर्वापस्तरमादाज्य पुरोडाशादिदक्षिणाब्राह्मणभोजनार्थानीति आहर्तव्यानि । पौर्णमासतन्नं बृहस्पतये जुष्टं चरुं निर्वपतीत्यादि । शितिपृष्ठः श्वेतपृष्ठः । एवं सर्वत्र यागो द्रष्टव्यः । श्वोभूतेऽग्निहोपर हुत्वा संकल्पादि पूर्ववत् । राजन्यस्य गृहं गत्वा-ऐन्द्रमेकादशकपालम् , ऋषभो दक्षिणा । श्वोभूते संकल्पादि । महिषी प्रथमोढा तस्या गृह आदित्यं नरं धेनुदक्षिणा ॥४॥

भगाय चरुं वा वातायै गृहे विचित्तगर्भा पष्ठौही दक्षिणा ॥५॥

श्वोभूते संकल्पः । ऊढवो ( दास ) प्रियतमा वावाता । भगाय चरुं० विचित्त गर्भा व्यक्तगर्भा पष्ठीही दक्षिणा भवतीत्यर्थः ॥ ५ ॥

नैर्ऋतं चरुमिति सर्वतोऽङ्गुष्ठमात्रो नैर्ऋतश्चरुर्भवति ॥६॥

श्वोभृते संकल्पादि । अपुत्रा राजपत्नी केवलं भोगार्था परिवृक्तिः । पुत्रादिभिः परित्यक्ता वेत्येके । तस्या गृहे कर्तव्यं नैर्ऋतं हविः । हरियो द्रव्यं विदधच्चोदकप्राप्तमवघात निषेधति–स कृष्णानामिति । नवनिर्भिन्नानां कृष्णनीहीणां तण्डुलै - रृतं चरुं निर्वपेत् । स च सर्वतोऽङ्गुष्टमात्रो नैर्ऋतश्चरुर्भवति नाधिक इत्यर्थः ॥ ६ ॥

अङ्गुष्ठपर्वमात्रो वा सर्वहुतं नैर्ऋतं जुहोति ॥ ७ ॥

पर्वसंधिः, न पुरोडाशधर्मः । जुहोतिचोदितत्वात्स्वाहाकार प्रदानत्वाचायं होमो दविहोमः । कात्यायनेन तु पक्षान्तरं सूत्रितम्-' दाहोम एष ते नित इति जुहोति । वषट्कृते वा' ( का० श्री० १५-३-१४।१५.) इति । कूटा भग्नशङ्गा गौर्दक्षिणा । अत्राप्याहाऽऽपस्तम्बः-नैर्ऋतः सर्वतोऽङ्गुष्ठपर्वमात्रश्चरुरित्येके ( आप० भौ० १८-१०-१६) इति ॥ ७ ॥

तक्षरथकारावेकस्मिन्गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपति सर्वायसानि दक्षिणा गोविकर्त्रक्षावापावेकस्मिन्गृहे समवनीय वैष्णवं त्रिकपालमिति वत्सः श्वेतशबलो दक्षिणा । वैष्णवं त्रिकपालं त्रयोदशं तक्षरथकारयोर्गृहे । सर्वायसानि दक्षिणा । तक्ष्णो रथकारस्य वेत्येके ॥ ८ ॥

श्वोभूते संकल्पादि वैष्णवेष्ट्या यक्ष्य इत्यादि । तक्षा वर्धको रथकारः करियां १तेना।