पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ सत्यापादविरचितं श्रौतसूत्रम् - ... [१३

कर्तृत्वभेदाभावः। आवादिसमाख्यया तेषां तेषां कर्तृणां प्रतियागं भेदेनैव विहिततया 'दर्शपूर्णमासयोश्चत्वार ऋत्विज्ञः' इत्यस्य सोमे सप्तदशस्विनः' इत्येतद्विभ्यन्तरैकवाक्यतया तदर्थवादत्वेन कर्तृप्रयोगविधायकवाभावात् । अत एव दशैं पूर्णमासे च पृथ वरणानुष्ठानं याज्ञिकानाम् । . .. एवं च दक्षिणायाः कर्तृत्वभेदद्वारा प्रयोगभेदावश्यकत्वे राजसूयान्तर्गतावेष्ट्यादौप्रयोगभेदिकाया . अपि तस्या ..अन्नाद्यफलकब्राह्मणादिकर्तृकावेष्टयादिप्रयोगे दक्षिणापेक्षायां सति .संभवे तत्तत्प्रधानाङ्गत्वेनावगतायास्तस्या एवोपस्थितत्वा: दाग्नेयीन्यायेन ग्रहणं न त्वन्तःक्रतुप्रयोगे बाधिताया अन्वाहार्यदक्षिणाया इति वक्ष्यते अस्तु वा तत्रापि सा | सर्वथा दक्षिणाभेदे प्रयोगभेद इति सिद्धम् || इति सत्यापाठहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां. ..... त्रयोदशप्रश्ने तृतीयः पटलः ॥ ३ ॥

13.4 अथ त्रयोदशप्रश्ने चतुर्थः पटलः ।

अथ रनिना हवींप्यनुदिनं क्रमेण कर्तव्यान्युच्यन्ते । तत्र प्रयोदश हवींषि विधत्ते -

श्वोभूते त्रयोदश रत्निनाँ हवीꣳषि ॥१॥

रत्नान्येषां सन्तीति रनिनः । ब्राह्मणरानन्यवैश्यमंहिष्यादयो रनिनः । तदभिमानिदेवानां प्रियाण्येतानि हवींषि । अतस्तद्गृहेष्वेव गत्वा निर्वपेत् ।। १ ।।

यजमानस्याऽऽप्तानां गृहेष्वन्वहं निर्वपति ॥२॥

आघानां ब्रह्मादीनां गृहेष्वन्वहं पृथक्पृथनिर्वपेदित्यर्थः ॥ २ ॥

यस्य यस्य गृहे निर्वपति तस्य तस्य गृहादिष्टिपरिवेषणं दक्षिणा च ॥ ३ ॥

इष्टिपृथक्त्वादक्षिणाऽपि पृथक् ॥ ३ ॥

बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । शितिपृष्ठो दक्षिणेति यथासमाम्नातम् । पुरोहितस्यैकेषाम् ॥ ४॥

रनिनां हविर्भिक्ष्य इत्यादि, रनिनां हविषि वरणानन्तरं संकल्पः । अग्नीन्पृ. थक्पृथक्समारोप्य ब्रह्मणो महत्विजो गृहं मत्वा दार्शिकीं वेदिं कृत्वाऽग्निं मथित्वा