पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ सत्यापाढविरचितं श्रौतसूत्रम्- . । १३ प्रश्ने

देविकाहविर्मिर्यक्ष्य इत्यादि । देविकाहविषा५ हविरिदं० । केचिदिष्टया यक्ष्य इत्युक्त्वा, ऐष्ट५ हविः० धात्रे पुरोडाशं द्वादशकपालं निर्वपत्यनुमत्यै चरु५ राकायै चरुण सिनीवाल्यै चरुं कुदै चर्स मिथुनौ गावी दक्षिणा । ब्राह्मणभोजनान्तं समा. प्यते ॥ ३९ ॥

प्रवीता प्रवीयमाणेत्येकेषाम् ॥ १३.३.४० ॥

नवप्रसूता गर्भिणी वा गौः ॥ ४०॥

ताभिः प्रजाकामः पशुकामो वा यजेत ॥ ४१ ॥

ताभिदेविकाहविभिः ॥ ४१ ॥

आमयाविनं याजयेद्वा धातारं मध्यतः कृत्वा प्रजाकामः पुत्रैर्धातारमुत्तमं कृत्वाऽऽमयावी पशुना यजते ॥ ४२ ॥

समाप्ते धातृपशुः, पशुबन्धेन यक्ष्य इत्यादि । केचिन्नेच्छन्ति । षड्ढोत्रा, (उदवसानीय ) उदवसाय पश्चिष्टिः, धात्रे त्वा जुष्टमुपाकरोमीत्येव निगमः । उत्तराणि त्रीणि हवीं षि अग्निश्वानरवारुणी च, समाप्ते पशौ च तस्मिन्नहन्येव । स च विधिरने वक्ष्यति सूत्रकारः ॥ ४२ ॥

श्वोभूते त्रिषंयुक्तैरन्वहं यजते ॥ ४३ ॥

पशोरभारे देविकानन्तरे । अथवा पञ्चाप्यन्वहं पाक्षिकं सूत्रकारमतात् ॥ ४३॥

आग्नावैष्णवमेकादशकपालं निर्वपतीति यथासमाम्नातं प्रथमं त्रिषंयुक्तं तेन यज्ञकामो यजेत । अग्नीषोमीयमेकादशकपालं निर्वपतीति यथासमाम्नातं मध्यमं त्रिषंयुक्तं वीरजनꣳ समामनन्ति । सोमापौष्णं चरुं निर्वपतीति यथासमाम्नातमुत्तमं त्रिषंयुक्तं तेन पशुकामो यजेत । वैश्वानरं द्वादशकपालं निर्वपतीति तेन ग्रामकामो यजेत । वारुणं यवमयं चरुमिति सर्वतःप्रादेशमात्रो वारुणश्चरुर्भवति । योग्योऽश्वो व्युप्तवहो वा दक्षिणा । समानतन्त्रौ वैश्वानरवारुणावेके समामनन्ति। (ख०१०)॥४४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने तृतीयः पटलः ॥

तासामिष्टीनां कर्म-इष्टया यक्ष्य इत्यादि। पौर्णमासतन्त्रम् । अग्नाविष्णुभ्यां जुष्टं . इन्द्राविष्णुभ्यां जुष्टं - विष्णवे जुष्टं ० । वामन ऋषभो दक्षिणा । पूर्ववत्संकल्पादि । ऐट५