पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. [८] षोडशे तु द्वादशाहं महाव्रतविधि गवाम् । ततः सप्तदशप्रश्ने एकाहाहीनसत्क्रियाम् ॥ अष्टादशे ततः प्रश्ने सत्राणि विविधानि च । एकोनविंशे विंशे तु गृह्यकर्मविनिर्णयम् ।। अथैकविंशे प्रश्ने तु हौत्रप्रवरनिर्णयौ । काम्येष्टिकाम्यपशवः प्रश्ने द्वाविंश ईरिताः ।। त्रयोविंशे च कौकिली सौत्रामणी सकाठकाम् । चतुर्विशे प्रवर्ग्यं च सप्रायश्चित्तकं तथा ॥ पञ्चविंशे विशेषेण, विहारयोगनिर्णयम् । षड्विंशे सप्तविंशे तु सर्वधर्मानशेषतः ॥ एवं सामान्यतः सर्वप्रश्नानामर्थसंग्रहः । पुनरेव हविः सोमः पाकयज्ञ इति त्रिधा ॥ अग्निहोत्रं दर्शपूर्णमासावाग्रयणः पशुः । चातुर्मास्यं पिण्डयज्ञः सौत्रामणी हविः क्रियाः ॥ अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यषोडशिनी तथा । वाजपेयातिरात्राप्तोर्यामाः सोमतोर्मिदाः ।। होमो पाकावमाश्राद्धं माध्यावर्षं तथाऽष्टकाः । श्रवणाकर्माग्रहायणीः पाकयज्ञाः स्मृता बुधैः ॥ इत्येवं भगवान्सत्याषाढः सप्तविंशतिप्रश्नात्मके. सूत्रे श्रौतगार्डसामयाचारिकान्धर्मा' व्याख्यातवान् । ननु-'चोदनालक्षणोऽर्थो धर्मः' (जै० सू० १ । १ । २) इत्यत्र परोक्षापरोक्षद्विवि- धचोदनाया अपि संग्रहो विद्यत इति प्रत्यक्षवेदस्य विधिमन्त्रार्थवादरूपस्य प्रामाण्यविचारानन्तरं परोक्षतद्वाक्यप्रामाण्यविचार इत्युपपन्नम् । परोक्षत्वं चेदं न मन्वा- दिदृष्ट्या कित्वस्मदादिदृष्टया । मन्त्रादीनां तु तदपि प्रत्यक्षमेव । परंतु तत्तद्वाक्यं मन्वादिस्मृतिमूलभूतं विप्रकीर्णशाखागतमिति न तस्यापि मन्वादिभिः संप्रदायोच्छेदा- दिभिया पाठनं स्वकीयस्मृतीनामिव कृतमिति न दोषः । अयं भाव:--'स्वाध्यायोऽध्येतव्यः' (तै. आ०२।१५) इति विधिवाक्ये अध्या- यस्य स्वत्वविशेषणादेकवेदगतस्वपरम्पराप्राप्तशाखाध्यायनम् । वेदानीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।