पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः ] महादेवशास्त्रिसंकलित योगचन्ट्रियाच्यारयासमेतम् । १५९ ..

आदित्यं चरुं निर्वपतीति तदुत्तरास्वासामुत्तमा ॥ २५॥

वो भूतेऽग्निहोत्र हुत्वा, इष्टया यक्ष्ये, इत्यादि । आदित्य चळं चातुर्मास्यादित्यवत् । श्वोभूते संकल्पादि आग्नावैष्णवमेकादशकपालं, वामनो वहीं दर्शिणा वहीं मारवाही बलीवर्दः । रुद्राय गामिति प्रतिग्रहः । श्वोभूतः संकल्पादि । अग्नीषोमीयमेकादशकपालं हिरण्यं दक्षिणा । अग्नये हिरण्यमिति प्रतिग्रहः । श्वोभूते पूर्ववत्संकल्पादि, ऐन्द्रमे. कादशकपालं ऋषभो वहीं दक्षिणा । ऋषभः सेचनसमर्थः साण्डः । समाप्यामीन्परित्यज्य तदानीमेव संकल्पादि, द्विहविष्कावन्वाधाय शाखाहरणं, इन्द्राय देवभाग, अमावास्यातन्त्रं वेदं कृत्वा वेदिकरणं यवाग्वा सार्यहोमः, निशायां दोहनं इन्द्राय हविरिन्द्रियं बहुदुग्धीन्द्राय देवेभ्यः, इन्द्राय दधि प्रामुदयादुपक्रमः | पात्रासादनकालेऽष्टी. कपालानि प्रकृतिवत्सर्वाणि पात्राणि प्रातदोहपात्राणि । अन्वाहायस्थालीवर्नम् । अग्नये अष्टं निर्वपामीत्यादि, न. प्रातदोहः । शेषं सर्व प्रकृतिवत् । ऋषभो.दक्षिणा वरुणप्रघासवदूहः ॥.२५ ॥

आग्रयणेष्टिस्तयेष्ट्वा श्वोभूते सरस्वत्यै चरुं निर्वपति । सरस्वते चरुं मिथुनौ गावौ दक्षिणा॥२६॥

श्रोभूते त्रिविष्क, पूर्ववत्संकल्पादि, पुराणानेव ब्रीहिश्यामाकान्द्यावापृथिविवर्जमाप्रयंणवसर्वम् । ऐन्हान द्वादशकपालं वैश्वदेवं च प्रथमों को दक्षिणा । सौम्य श्यामाकं चरुं वासो दक्षिणा । ऐन्द्राअवैश्वदेवसौम्यस्त्रिभिर्ह विभिर्युक्त आग्रयणरूप एक एव यागः । स्वोभूते सरस्वत्यै चरु सरस्वते चरुं मिथुनौ गावी दक्षिणा, इति । सरस्वतीसरस्वदेवताभ्यां "हविया युक्तो याग एकः । तदेवमादित्यादयः सष्ठ संपद्यते संपद्यन्ते ॥ २६ ॥

श्वोभूते चातुर्मास्यान्यालभते । तैः संवत्सरं यजते ॥२७॥ न शुनासीरीयं प्रतिसमस्याति २८॥

श्वोभूते चातुर्मास्यान्यालभते । चातुर्मास्यैर्यक्ष्य इति संकल्पादि । न पञ्चहोता नावारम्भणीया । वैश्वदेवेन यक्ष्य इत्यादि । एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमतायन: न्तरभावित्वं पाउमाप्तमापस्तम्बो विशदयति-एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारमते तैः संवत्सरं यनेत इति । तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ सूत्रकारेण व्याख्यातौ- प्राचीनप्रवणे वैश्वदेवेन यनते ' इति । ' फाल्गुन्या पौर्णमास्यां चैव्या वा वैश्वदेवेन यजते ' इति च । शेषं पूर्ववत् । न शुनासीरीयं प्रतिसमस्यति । यहादयो मासान्ता विकल्पा न भवन्ति । चतुर्षु चतुर्षु मासेष्वेव नियमः | आगामिन्या