पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ . सत्यापाढविरचितं श्रौतसूत्रम्-- १६ प्र

अङ्गुष्ठाभ्यामेष ते निर्ऋते भाग इति वा ॥१३.३.२०॥

मुम्चेममहस इत्यन्तनाङ्गुष्ठाभ्यां वित्रंसिकाकाण्डाभ्यां वा प्रदेशिनीम्यामित्यर्थः । यद्वा-चोदकप्राप्तं जुह्वा होगमपवंदितुं विधत्ते--अङ्गुष्ठाभ्यां जुहोतीति ॥ २० ॥

वासोऽभिन्नान्तं दक्षिणा कृष्णं वासः कृष्णदशम् ॥ २१ ॥

कृष्णं वासः कृष्णदशमवयं ददाति । मुख्यब्राह्मणे विहितां दक्षिणां प्रशंसतिकृष्णं वासः कृष्णतूषं दाक्षिणा । एतद्वै निर्वात्यै रूपम् । रूपेणैव निति निरव. दयते (तै०वा. १-१-१) इति राक्षसजातेः पापरूपाया नितेदेहः कृष्णवर्णः ॥२१॥

अपः परिषिच्याप्रतीक्षमायन्ति ॥ २२ ॥

तृष्णी परिषेचनं कृत्वा होमदेशमनवेक्षमाणा आयन्ति । पृष्ठभागदर्शनरहितं प्रत्यागमनं विधत्ते-अप्रतीक्षमायन्ति । निर्गत्या अन्तर्हित्य (ते. बा. १-६-१)अदर्शना. येत्यर्थः ॥ १३ ॥

स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये जुहोति ॥२३॥

अथ हस्तपादाम्प्रक्षाल्यैतेनैव पथा यथेतमेत्य गार्हपत्ये त्रुवाहुति जुहोति स्वाहा नमो यदं चकारेति । न स्वाहाकारस्तं पू(स्तत्पू)होमीयमिति ॥ २३ ॥

अ(आ)नुमतेन प्रचरति य उदञ्चोऽवशीयन्ते तानुदक्परेत्य शुक्त्या वल्मीकवपामुद्धत्येदमहमयुष्याऽऽमुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां जुहोति । तामपिदधातीदमहममुष्याऽऽमुष्यायणस्य क्षेत्रियमपिदध इति शुक्त्या वल्मीकवपया वा ॥ २४ ॥

अयं वेद इत्यादि अनुमत्या अनुबहीति अनुमति यज । अनुमत्याऽहमन्नादः धेनुदक्षिणा । चातुर्मास्यपर्जन्यवहो यज्ञ शं च म वर्जे ब्राह्मणभोजनान्तम् । शम्याया उत्तरतः पतिता ये तण्डुलास्तानादाय शुक्तिकायां च गृहीत्वोत्तरतो गत्वा वल्मीकवपायामेकशङ्गमुद्धत्य, अप उपस्पृश्य इदमममुष्याऽऽमुष्यायण इति राज्ञो नामग्रहणमामुष्यायणस्येति युवप्रत्ययान्तं पितुर्नाम च षष्ठयन्तमेवं गृह्णाति । एवमत्र प्रयोगः-इदमह५ राजेन्द्रवर्मणो राजेन्द्रचोळायनस्य हेतिमवयजे स्वाहा इति शुक्त्या जुहोति । वल्मीकवपायां शुक्तिकया मन्त्रेण पूर्ववन्नाम गृहीत्वा तस्यैव शुक्त्याऽपि दधाति । केचित्तुपेषणकाले पिष्टवोत्तरतः पतितांस्तांस्तण्डुलानादायोदक्परेत्येत्यादिशुक्योपधानान्तं कृत्वा कपालोपधानादिकं च कुर्वन्ति, इति ॥ २६ ॥ .