पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः ] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्यालासमेतम् । ५.

अनुमते हव्या रक्षस्वेत्यधिवापनान्तं कृत्वा पिष्टानामनुमन्त्रण- शभ्यापश्चादुत्तरतम्य न्यवशातयति निपातयति तण्डुलान् ॥ १३ ॥

ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतमेककपालं कुर्यात् ॥ १४ ॥

अस्मिन्कर्मणि पुरोडाशार्थ तण्डुलेषु पिष्यमाणेषु पश्चिमायां दिशि हपदमभ्याधातुमधः स्थापितायाः शम्यायाः पश्चाये तण्डुलपिष्टलेशा अवशीयन्तेऽधः पतन्ति तल्लेशजातं द्रव्यं नितिदेवताकं, तदिदमपरं कर्म पृथग्दक्षिणाभिधानात् । आनुमतं पिष्ट्या *त पेषणं भवति ॥ १४ ॥

उपधायाऽऽनुमतस्य कपालानि नैर्ऋतस्य कपालमुपदधाति ॥ १५ ॥

अनुमतेरेष्टावुपधाय नैर्ऋतस्यैककपालं तूष्णीं वेत्येके । प्रथममन्त्रेणोपदधातीत्यपरे । अनुमत्यै संवापः, नैतं तूष्णीम् । अन्यस्यां .. पाच्या.. नैतस्य तूष्णीमुपचारः । पुरोडाशद्वयमुद्वास्योत्तिधा(तं धारयति ॥ १५ ॥

आसाद्या(द्याऽऽ)नुमनं नैर्ऋतेन प्रचरति ॥१६॥

प्रियेणेत्यासादनम( मा )नुमतस्य, यज्ञोऽसि. अयं यज्ञः ममाग्ने चतुर्होत्तर इत्यासन्नाभिमर्शनम् ॥ १५॥

वीहि स्वाहाऽऽहुतिं जुषाण इति स्रुवेण गार्हपत्ये जुहोति ॥१७॥

अध्वर्युयजमानयोरार्तिनिवारणाय जुहुयादित्यर्थः । गृहपतिर्देवता ॥ १७ ॥

दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ १८ ॥

दाक्षिणाग्नेरुल्मकनयनं विधत्ते---- एकोल्मुकेन यन्ति । तद्धि नित्यै भागधेयम् । (तै० वा. १-६-१) इति । उन्मुकेन युक्ता इत्यध्याहारः । नितिरेकोल्मुकप्रियत्वमर्थवादान्तरगवं हिशब्देन सूच्यते ॥ १८ ॥

पराचीनं दक्षिणापरमवान्तरदेशँ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय जुषाणा निर्ऋतिर्वेतु स्वाहेति ॥ (ख०८).॥ विस्रंसिकायाः काण्डाभ्याꣳ सर्वहुतं नैऋतं जुहोति ॥ १९ ॥

दक्षिणपश्चिमयोरवान्तरदेशमङ्गुलिनिर्देशेन विधत्ते-इमा दिशं : नयन्ति । एषा के निर्ऋत्य दिक् । स्वायामेव दिशि निर्ऋतं निखदयते, (तै ब्रा० १-६-१) इति । इरिणमुषरक्षेत्रं, तच्च स्वकृतं स्वतः सिद्धं न तु यतः कुतश्चिदादायोपाः प्रक्षिप्ताः । प्रदरः वतः सिद्धं भूच्छिद्रम् । (तस्मिन्) तत्रोपसमाधाय नैर्ऋत५ सर्वहुतं जुहोति ॥. १९ ॥