पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ : सत्यापादविरचितं श्रौतसूत्रम्-- ११:

तेषां प्राधान्ये तत्तदिष्टया यक्ष्ये, इत्यादिसंकल्पस्य तत्तदिष्टिमें जायताम् ' इत्याका. रकेच्छामन्तरेणापि राजसूयो मे जायताम्' इत्यांकारकराजसूयत्वप्रकारकेच्छाजन्यप्रवृत्त्याऽप्युत्पत्तिसंभवेन तत्तदिष्टित्वावच्छिन्नोद्देश्यताका वृत्तिविषयत्वाभावान्न ततः पूर्वं तावदारम्भणीया न वा ' राजसूयेन यक्ष्ये ' इति महासंकल्पापूर्वः तस्यापि राजसूयुत्वावच्छिन्नोवेश्यताकप्रवृत्तिविषयत्वेन तत्तदिष्टित्वावच्छिन्नोद्देश्यताकप्रवृत्तिविषयत्वा. भावात् । नहिं राजसूयत्वं दर्शपूर्णमासनिष्ठप्रकृतितानिरूपितविकृतितावच्छेदकं तस्य सोमयागेष्वपि सत्त्वेनातिप्रसक्तत्त्वात् । अत एव यत्र चातुर्मास्यांदावाप्रयणादौ वा नातिप्रसक्तं चातुर्मास्यत्वादि तत्र प्रतियागं भिन्नातिदेशकल्पने सत्यपि तस्योद्देश्यता बच्छेदकत्वे न काचित्क्षतिः । .... .. ... वस्तुतस्तु-प्रकृतावपि दर्शपूर्णमासत्वं नोद्देश्यतावच्छेदकमपि त्वाग्नेयत्वादिकमेव कालैक्यात्तु तन्त्रेण करणम् । 'दर्शपूर्णमासाभ्यां यक्ष्ये 'इत्यस्यापि च : आग्नेयादिभिः र्यक्ष्ये' इत्येवार्थः । ततश्च विकृतावपि चातुर्मास्यादौ तत्तथागत्वमेवोद्देश्यतावच्छेदकं कालैक्याच्च तन्त्रेण करणम् चातुर्मास्यैZध्येः' इत्यस्य चौतियागैर्यक्ष्ये ' इत्येवार्थ इति न कश्चिद्विरोधः । अतस्तत्र भवत्येव तदारम्भेऽन्वारम्भणीया। प्रकृते तु सत्यपि तत्तदिष्टित्वादेरुदेश्यतावच्छेदकत्वे तत्तत्सौमत्वादेरप्युद्देश्यतावच्छे दकत्वान्नान्वारम्भणीया । प्रकृती हि दर्शपूर्णमासावारप्स्यमानः, इत्यनेन दर्शपूर्णमासंयोर्विशेषणत्वनिर्देशादपूर्वसाधनत्वलक्षणावेलायां प्रकृतापूनिष्ठकार्यतानिरूपितकार ता. वच्छेदकावच्छिन्नत्वे सति निरुक्तकारणतानवच्छेदकानवच्छिन्नत्वमुद्देश्यताविशेषणं विवक्षणीयम् | अतश्च राजसूये तादृशोद्देश्यताभावान्नान्वारम्भीया.। अत एवं प्रकृती'अग्निहोत्रं दर्शपूर्णमासौ च मे जायताम्' इत्याकारकेच्छाअपि नौद्देश्यतापटिका । अन्यथाऽग्निहोत्रीयप्रथमप्रयोगीयाद्यपदार्थस्यापि तादृशोद्देश्यताकप्रवृत्तिविषयत्वात् नत्राप्यन्वा. रम्भणीयापत्तेः । अतस्ताद्दगिच्छोत्तरं । दर्शपूर्णमासी जायेताम् । इत्याकारिकेच्छा जायते. सैवोद्देश्यताघटिकेति ध्येयम् । ...... ... ... ........ विद्युत्वृष्टी कर्मणि कर्मण्यादावन्ते च भवतः । अन्वाधानादि अद्य यज्ञायः इमामूर्ज षष्ठी • ऐष्ट५ हविः पौर्णमासतन्त्रं, पात्रभयोगकालेऽष्टौ कपालानि वर्षिष्ठमेककपालं स्पंयश्च द्वंद्वमवशिष्टानि प्रकृतिवत् । अन्वाहार्यस्थालीव च । चतुर्दशीमिश्रितायाः पौर्णमास्या अभिमानिदेवताऽनुमतिः । अमावास्या सिनीवाली पौर्णमास्यनुमतिः ' इति श्रुतेः । कलाहीने साऽनुमतिः पूर्णे राकां निशाकरे' इत्यभिधानात् । सा चीनुमतिरत्र देवता पुरोंडाशों द्रव्यमित्येतदेकं कर्म । दक्षिणामिधानेनं वक्ष्यमाणेभ्यः कर्मभ्यो भिन्ना विकारावगमात् । निर्वपणकाले देवस्य त्वाय अनुमृत्यै जुष्टं निर्वपामीति निर्वपति ।