पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ सत्यापादविरचितं श्रौतसूत्रम् [१३ प्रभेद्वाविंशतिर्वा । तस्यान्त्यवृद्धिन्यायेनान्त्ये (न्ते) निवेशः । क्षत्राणां धृतौ, अन्यत्राष्टाविं. शत्या, एको(कया)गवा ते क्रीणानीत्युक्तम् । तस्याः पांसुग्रहणं, सा द्विरूपा द्विरूपया राजन्यस्येति वचनात् । अत्र. सप्तविशत्या गोमिस्ते क्रीणानीति अस्मे ज्योतिरित्यादि। - आतिथ्यया प्रचर्य यवाग्वा व्रतं प्रवयंसंभरणकाल इदमहमामुष्यायणं द्वितीयविभक्त्या बुक्कवर्माणं कर्णाटकविशां पhहामीति सिकताव्यूहनम् । महावीरप्रतिष्ठापनकाले धर्माऽसि सुधर्मा मेऽन्यस्मे क्षत्राणि धारयेत्याप्यायनं फलानामपि । उपसद्रतं स्तनकरूप एव । शेषमग्निष्टोमवत् ॥ महाराने बुद्धा-धुर्व प्रयुज्य षोडशिपात्रं प्रयुनक्ति, अत्यग्निष्टोमवत् । केचिन्नेमछन्ति । प्रकृतावाग्निष्टोमे षोडशीति द्रोणकलशद्वयं पूतद्वयमाधवनीयद्वयं च गावधर्मणोरभेद इत्येके । मावचर्मणोरभेद इति बढचवचनात् । वसतीवरीणामपां प्रपा(सा)एनकाले पूर्वया द्वारा गतश्रीत्वात् । अभिषवकाल · इन्द्राय वा वृषघ्न इति कृत्वा प्रत्यवरोह्य फलान्येव कुर्वन्ति । महाभिषवं कृत्वा संभृत्य चर्मग्रावाणावपोह्यापर धर्म प्राणः प्रोक्ष्याऽऽसाद्यापां क्षयान्तं कृत्वा काले वा सह कृत्वा फलान्यपरे न्युप्य प्रागपागित्यादि। नात्रावीवृध। आमास्कानिति द्रप्सश्वस्कन्देति भवतः । केचिनेच्छन्ति । एवमंभिषुत्य प्रपीड्य लौकिकेन दध्ना संसृज्यान्यस्मिन्नांधवनीयेऽवनयति । ध्रुवं गृहीत्या षोडशिग्रहणम् । ततो न्यग्रोधकलश प्रतिष्ठाप्य संमार्जन कृत्या तस्मिन् पवित्रं वितत्य फलरसात् किंचिदानयन्ति । एकधनाना यथार्थमिति । सोमस्य कृत्वा पश्चात् फलानां मैत्रावरुणचमसाद्यो उभयत्रः । ततः पवमानमहादिफलानामपि द्वौ समुद्रौ द्वे धसी भूताः स्थ. विष्णोरिन्द्रस्य विश्वेषां देवानामिति पृथमेव कृत्वा सोम त्वामिति निवृत्तिः । शताः स्थ • प्रमापतेरिन्द्रस्य विश्वेषां देवानां शृतस्त्वमिति भवति । यथा श्रीहिमन्त्रस्य यवप्रयोगे निवृत्तिस्तद्वदिति । चमसोनयनकाले. यजमानचमसमुन्नेता फलरसेनोन्नयति । द्रोणकलशादुपस्तीत्यादि चमसेषु हुयमानेषु मध्यंतःकारिणां चमसिमां त्रयाणां हुसेऽन्तःपरिध्यङ्गारं निर्वयं दर्भतरुणेन गृहीत्वाऽहं त्वदस्मिक र इति) तस्य चमसाध्वर्युरङ्गारे चमसं (सेन) जुहोति । अनुवषट्कृते नुहोति तूष्णीम् । मक्षणकाले भक्षेहीत्यवेक्ष्य नृपक्षसं त्वा. यदत्र शिष्टमिति अहं तदस्मि इसि भक्ष. 'यति यजमानः शं न एधीति । अपः ( इति ) बढचवमनात् । सर्वत्र यजमानचम. सेप्वेवं प्रयोगः ॥ ४ ॥

पञ्चापवर्गो भवति ॥ ५ ॥

अपवर्गः परिसमाप्तिः ॥ ६॥