पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-ई. पटला ] महादेवशास्त्रसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । १५३

मभिषेचनीयायोक्थ्याय दीक्षा प्रवत्स्यतीति ॥३॥

सच सोमयागो दीक्षासंबन्धात् ॥ ॥

ज्योतिष्टोमेनाग्निष्टोमेन प्रथमं यजेत ॥ ४ ॥

ततः प्रवित्रेण यक्ष्ये । विद्युदसि । ततः सोमप्रवाकवरणमधुपौं । सोमप्रवाकः-- बुकवर्मणो राजसूयो भविष्यति । तत्र भवताऽऽध्वर्यवं कर्तव्यम् । कञ्चिन्नाहीन इति पृष्टे नाहीनों राजसूय इति प्रतिवचनम् । ननु चाहर्गणत्वसामान्यादहीनत्वप्राप्त इदमुच्यते, तत्र द्राह्मायणेन त्रिरात्रप्रभृतिपश्चाहर्गणादन्यत्र राजसूयचातुर्मास्याभ्यामित्युक्तम् । तस्मान्नाहींनी राजसूय इति प्रतिवचनम् । होतृवरणकाले भार्गवो होता भवति । तं वृणीते। न काण्वकाश्यपादीन् । दशपेये भार्गवो होता भवति (तै० सं० १-८-२०) इति ( ब्राह्मणात् ) श्रुतेः । पवित्र ऋत्विजस्त एव कृत्स्नस्य राजसूयस्य । अथ वाकर्मणि कर्मणि पृथग्वरणम् । दशपेयेऽपि भार्गवमिति बौधायनवचनात् । दशपेय एंव भार्गवमिति गम्यते । देवयजनयाञ्चा(ना)पक्षे राजा देवयजनमित्यनेनैव विधिना, समा. रोपणकाले गार्हपत्यादीन्सर्वाननीन्स(दिसर्वाग्नीनां समारोपणं सभ्यावसथ्ययोश्च । तौ नियती। पतिर्वा एषेति श्रुतेः । संभारयषि हुत्वा सोममाह य परिवेषणं च । संतो न्यग्रोधस्तिभिनीराहत्य. परिवेषणम् . ! न्यग्रोधफलानि । सप्तहोतु (होम हुत्वा) स्वे दक्ष इत्युपस्थानम् । अथ दीक्षणीयाया अन्वाधानम्-अजस्रं त्वा० अन्नमावसीयं० नतकाले बायो चतपते ० अवहननकाले हविष्वदागहीत्याहानम् । पुरोहितप्रवरेण प्रवृ(वर)णम् । अववानकाले पूर्वप्रथमान्यवोद्गतश्रीत्वात् । एवं पत्नीसंयाजान्ते दक्षिणायष्टिः संतिष्ठते । आवेदनकालेऽदीक्षिष्टाय ब्राह्मणो राजेन्द्रश्चोलवर्मणः पुत्र इति । यवागूवतं, प्रायणाया सोमायणकाले दक्षिणे चर्मपक्षे, राजानं निवपति । तत्समीपे न्यग्रोधफलानि निदधाति । सोमाभिधायकमन्त्राणां फलेहेन प्रयोजनमिच्छन्ति मीमांसकाः । नैमित्तिकमतुल्यत्वादसमानविधानं स्यादिति न्यायेन । सूत्रकारस्य तु मन्त्राणां निवृत्तिः । तूष्णीकं समृन्मयं चेति वचनात् । . .. . - अत्र सौमक्रयणे विशेषः---अशुना ते अशुरिति सोममभिमन्व्य तुप्णी फलनि अभि त्यं देवमिति मीत्वा सोमम् । तूष्णीं फलानि । प्रजाभ्यस्त्वेत्यादि सोम ते क्रीणानीति नपित्वा गवा ते तस्या आत्मा द्वाभ्यां राजसूयस्येति वचनात् । द्वाभ्यां शताम्यां क्रयः । शतद्वयस्य सप्तसोमानां सप्तधा विभागः । एकैकस्याष्टाविंशतिः, एकैकस्य