पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ . सत्यापाढविरचितं श्रौतसूत्रम्- १३ प्रश्ने. राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवमिति त्रयाणामपि वर्णानामधिकारं दर्शयति । ... तत्कथम् । यदि राज्यस्य कर्ता राजा तदैवमुपपद्यते । अत्रोच्यते--न राज्यकर्ता राजेति शक्यते वक्तुम् । न ह्या प्रत्ययलोपः प्रातिपदिकस्य प्रत्यापत्तिवों स्मर्यते । राजशब्दात्तु कर्माण ष्यप्रत्ययो विधीयते । तेन राज्ञः कर्म राज्यमिति शक्यते वक्तुं राज्यस्य कर्ता राजेति । यत्त्ववेष्टयां ब्राह्मणानां दर्शनमुक्तं तद्राजसूयाइहिरन्नाद्यकामस्यावेष्टिविहिता तद्विषयमिति । यत्त्वेकदेशे जातौ राजशब्दप्रयोगो योगात्सार्वभौम । इत्यत्र ब्रूमः । एकदेशेऽपि शब्दशक्तिमन्तरेण प्रयोगोऽनुपपन्न एव । सार्वभौमस्तु प्रयोगः स उपचारवृत्त्या राज्ञः कर्म कुर्वन् राजेव राजेत्युच्यत इति । तथा च समान. चोदनायां दृश्यते । तस्माद्राष्ट्यश्वमेधेन यनेत क्षत्रिययज्ञ उ (ह) वा एष यदश्वमेधः' इति । तथा-तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये यजमानं । सन्तमृस्विक्त्वेनेति क्षत्रियस्य राजसूर्य दर्शयति । राजस्येप्रकरणे ( जै० सु. ४-४-१) इष्टिपशसोमयागा अयागाश्च होमविदेबनादयः सर्वे फलाकाङ्क्षा अपि श्रुता न स्वाराज्येन फलेन संबध्यन्ते भावार्थाधिकरणन्यायेन (जै० सू०२-१-२ ) यजेरेव फलभावनाकरणत्वादयागानां तदङ्गत्वोपपत्तेः। राजसूयपदस्य यजिसामानाधिकरण्येन तन्मात्रनामत्वाच्च । न च राजा सोमः सूयतेऽभिषयतेऽस्मिन्निति व्युत्पत्त्या राजसूयशब्दस्य सोमयागमात्रवाचित्त्वात्तेषामेव फलसंब. न्धोऽस्स्विति वाच्यम् । राज्ञा क्षत्रियेण -सूयते निष्पाद्यत इति व्युत्पत्त्या सर्वेष्वप्युपपनत्वेन यजिसंकोचे प्रमाणाभावात् । अत एव राजा. क्षत्रियः सुनोति नाति यत्रेति व्युत्पत्याऽभिषेचनीयस्यैव तन्माहेन्द्रस्तोत्रकालाभिषेकवत्त्वसंबन्धेन राजसूयपदप्रसिद्धेस्तस्यैव फलसंबन्ध इत्यप्यपास्तम् । उक्तव्युत्पत्त्या सर्वपरत्वसंभवे यजिसंकोचे प्रमाणाभावात् । अतः सर्वे यागा एवं फलप्रयुक्ता इति विदेवनादीनां तद्विकृतावतिदेशः ॥ १॥

तैष्याः पौर्णमास्याः पुरस्तात्पञ्चरात्रे मासि दीक्षेत ॥ २॥

पौषपौर्णमास्या उपरिष्टापक्षे गते यद्यजनीय तत्र दीक्षा माघप्रतिपदीत्यर्थः । तथा घाऽऽह कात्यायनः- माघी( घ) पक्षयजनीये दीक्षा' (का० औ० १५-१-३) 'इति । सूत्रान्तरे तु वसन्तादौ फाल्गुन्यां पौर्णमास्यां प्रथमायां वा राना क्षत्रियोऽभि। षिक्तो वा इष्टप्रथमयज्ञ आमावास्येन इविषेष्ट्वा पत्नीभिः सह प्राणानायम्य संकल्प करोति, इति । अत्र संकल्पः-राजसूयेन यक्ष्ये शतसहस्रदक्षिणेन वा स्वर्ग लोकमवाप्नवानीति संकल्पः ॥ २ ॥

यथाऽस्यां परस्मिन्संवत्सरे तैष्यां पौर्णमास्या