पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटेलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १५१

क्षत्रस्योल्वमसि, इति पूर्ववत् । अत्र नाऽऽनिधावनं रथसंस्कारकत्वात् । रथादीनामभावा स्केचित् एकेन रथेनाऽऽनिधावनमिच्छन्ति कुरुवाजपेये । तदा (वैश्यरथकारयोः) राजन्य. 'वैश्ययोश्च नेष्टः । शिष्टं सर्वं पूर्ववदिति । संतिष्ठते कुरुवाजपेयः ॥ ३९॥

वाजपेयेनेष्ट्वा सौत्रामण्या यजेत ॥ १३.२.४०॥

तेनेष्ट्वा सौत्रामण्या यजेत । मैत्रावरुण्या चाऽऽमिक्षया वा ॥ १० ॥

न कंचन प्रत्युत्तिष्ठति ॥४१॥

साक्षाद्गुरुर(राव)प्यागते । यावज्जीवं न कंचन प्रत्यवरोहेत्, इत्यापस्तम्बः ॥ ४ ॥

श्वेतच्छत्री भवतीति विज्ञायते ॥ (ख०७) ॥ ४२ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने द्वितीयः पटलः ।

अत्राऽऽपस्तवीयेऽप्यधिकमेकं सूत्रयामास-'वृहस्पतिसवेन वा प्रत्यवरोहणीयेन वा .यजेत । श्वेतच्छत्री ह भवतीति विज्ञायते' ( आप० श्री. १८-७-१८) प्रत्यवरो. हणं यदि करोति तदा (न) बृहस्पतिसवेन यजेत । यजमानो यावज्जीव श्वेतच्छनी । भवतीति च्छन्दोगवचनात् ॥ ४२ ॥ ....... : इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां ..., .... प्रयोगचन्द्रिकायां त्रयोदशप्रश्ने द्वितीयः पटलः ॥ २ ॥

13.3 अथ त्रयोदशप्रश्ने तृतीयः पटलः।

ब्राहमणक्षत्रियोभयकर्तृकसंस्थारूपो वाजपेय उक्तः । अथैकतरकर्तृको विकृतिभूतो राजसूयो विधास्यते -

राजा राजसूयेन स्वर्गकामो यजेत ॥ १॥

तत्राकृतवानपेयस्य राजन्यस्यैव रानसूयेऽधिकारो न तु तेनेष्टवतः । राज्यफला- दपि साम्राज्यफलस्यातिशयितत्वेनोत्तमफलसाधनयागानन्तरमवरफलहेतुककतुकरणस्या...युक्तत्वात् । अत एव कात्यायनः राज्ञो राजसूयोऽनिष्टिनो वानपेयेन (का० श्री. १६ १-१२) इति । स चायं राजशब्दः क्षत्रियजातिनिमित्तः प्रदेशान्तरे दृश्यते । -: तस्य यत्कर्म स्मृतिविहितं तद्राज्यमित्युच्यते । किंच तत्तजनपदपुरपरिपालनादि । ननु राज्ययोगाद्राजशब्दप्रयोगः सार्वभौमः । तद्युक्ते ह्यात्रियेऽपि राजशब्द प्रयुअते. जना इति । राज्यं यः करोति स राजेति । एवं च कृत्वा राजसूय एवावेष्ट्यां दर्शनं भवति । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुति हुत्वाऽभिधारयेत् ।