पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । · १४९

पृङ्क्तामिति वा । विपृचः स्थ विपाप्मना पृङ्क्तेति प्रत्यङ्प्रतिप्रस्थाता सुराग्रहैः । विपृचः स्थ वि पाप्मना पृङ्क्तामिति वा ॥ १३.२.३० ॥ आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते । मार्जालीयन्यन्ते सुराग्रहैः प्रचरति । सोमग्रहैर्वषट्कारानुवषट्कारौ । सुराग्रहाननुप्रकम्पयन्ति । व्याख्यातः सोमस्य भक्षः ॥ ३१॥

संपृचः स्थेत्यध्वर्युः सोमग्रहः सह प्राङ्मुखो गच्छति । उत्तरवेदि प्राप्य दक्षिणाऽतिक्रम्योदङ्मुखस्तिष्ठति । ऋत्विजोऽपि सोमनहै: रूह तिष्ठन्ति । तथैव चमसाध्वर्यवः । असंभवे यथावकाशम् । विपृचः स्थेति प्रतिप्रस्थाता सुराग्रहैः सह प्रत्यङ्मुखों गच्छति अपरया द्वारा निष्क्रम्य सदः प्रविश्यापरया द्वारा सदसो निष्क्रम्य मार्जालीय गत्वां वैश्येन सहोदङ्मुखस्तिष्ठन् वषट्कृते सोमग्रहाणां सह चमसैः प्रक्षेपः । प्रजापतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु स्वाहा, इति षोडशिमन्त्रेणं मुहृत्य॒त्विजोऽध्वर्युश्चमसाध्वर्यवश्च तूप्णीमनुवषट्कारे च होमः सर्वेषां च सुराग्रहान् वषट्कारानुवषट्कारयोरनुप्रकम्पयन्ति । सोमग्रहाणां चमसानां च प्रजापतिर्देवता । सुराग्रहाणां च तथैव । विभ्राडिति सौर्यप्राजापत्यानामपि मन्द्राऽमिभूतिरिति वा ॥ ३० ॥ ३१ ॥

विराट्छन्दस इति भक्षमन्त्रꣳ संनमति ॥ ३२ ॥

विराट्छन्दस इति चमसस्य ॥ ३२ ॥

दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य सुराग्रहान् भक्षयन्ति ॥ ३३ ॥

अत्राऽऽपस्तम्बसूत्रे विशेषः- मारुत्या आहवनीयानि सोमबहारश्चर्तिवस्य उपहरन्ति । अनवदानीयान् सुराग्रहाश्च वाजसद्धयः । तानि दक्षिणस्यां वेदिनोण्या विमाांकृत्य भक्षयन्ति ' (आप० श्री० १८-७-८ ) इति । दक्षिणस्यां वेदिश्रोण्यां विमाथीकृत्याऽऽच्छिद्याऽऽच्छिद्य भक्षणमिष्टिविकारा यदि सुरा इडोपाह्वानवदुपहूय भक्षणं भवति ॥ ३३ ॥

अनुयाजैः प्रचरति ते व्यूढासु स्रुक्षु सारस्वतप्रभृतीनामुत्तरेषां दैवतेन प्रचरति ॥ ३४ ॥ अपि वा यत्रैवेतरेषां पशूनां वपाभिः प्रचरेत् ॥ ३५ ॥ यत्रो हैव हविर्भिस्तद्धविर्भिर्मारुत्या अवदानीयानृत्विग्भ्य उपहरति ॥३६॥ अनवदानीयान्वाज