पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. पटलः) महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमैतम् । १४७

भन्ते ॥ २२ ॥ तेषामनभिघारिताभिर्वपाभिः प्रचरति ॥ २३ ॥ सारस्वतस्य वपया प्रचर्य समवदाय प्राजापत्यानां वपाभिः प्रचरति ॥२४॥ नैवारेण प्रचरति हविराहुतिप्रभृतीडान्ता संतिष्ठते ॥ २५ ॥ महर्त्विजो हविरुच्छिष्टाशा भवन्ति ॥ २६ ॥

स्तुतस्य स्तुतमसीत्यादि । अतिग्राह्यहोमकाल इन्द्रौनस्विन्निति षड्भिरभिमन्त्रण तन्त्रेण भेदेन वा ध्व ( ज्व) लति वा इत्येतं पक्षमाश्रित्य प्रयोगः । देव सवितरेतत्ते मध्यम उक्थ्यपर्याये ब्रह्मसाम्प्युपाकृते सारस्वतनैवारयोरासादनं प्रियेण० यज्ञोऽसीत्यादि, तयोः प्रचारः । जुह्वामुपस्तीर्येत्यादि सरस्वते पुरोडाशस्यानुव्हीत्यादि ( हीति) सरस्वते प्रेष्य सरस्वन्तं यजेति वा । सरस्वते-हमन्नादः । बृहस्पतेऽनुबू ३ हीति बृहस्पते ( तये ) प्रेष्य । बृहस्पति यजेति वा । बृहस्पतेरहमन्नादः । उभयोः स्विष्टकृतं विरुज्य प्राशिवमुभयोरिडामार्जनान्ता समाप्यते । महत्विजो हविरुच्छिष्टाशा भवेयुः । काले वेत्येवं पक्षमाश्रित्य प्रयोगः । देव सवितः अनुवसत्यादि सवनाहुस्यन्तं निःसर्पणान्तं च । इति माध्यंदिनं सवनम् ।। २२ ॥ २३ ॥ २४ ॥ २१ ॥ २६ ।।

पशुकाले सारस्वत्यन्तानां सर्वेषां दैवतेन प्रचरति ॥ २७ ॥

अथ तृतीयसवनस्य कर्म । देव सवितः स्वदाति नः स्वाहा । सविता देता । कलशोद्वर्तनम् । तत आदित्यग्रहग्रहणादि | आग्नयणं गृहीत्वोक्थ्यग्रहणम् । ततः षोडशी (शि ) ग्रहणम् । पुष्टयै म इत्येते स्तुत आर्भवे पयमाने, अग्निदग्नीन्विहर पशुषु संवदस्व, विष्णो त्वं न इत्युपस्थानान्ते प्रतिप्रस्थाता शत हवी (विः ) शमितरित्याधनहेन से ते मनसा० अग्नये त्वा जुष्टमभिधारयामि, अन्यत्पृषदाज्यमानयति । एवं क्रमेण सर्वेषामभिधारणम् । इन्द्राग्निभ्यां त्वा जुष्टं ० इन्द्राय त्वा जुष्टं० मरुन्यस्त्वा जुष्टं सरस्वत्यै त्वा जुष्टं ० ( सरस्वते त्वा जुष्टं० ) प्रजापतये त्वा जुष्टं एवं क्रमेण सप्तदशानां सर्वत्राभिघारयामीत्यभिधारणम् । यस्त आत्मेत्यध्वर्युः क्रमेण | स्वाहोष्मण इति मन्त्रेण दृश्हेत्युद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह पश्चहोत्रासादनं क्रमेण । वपावदासन्नामिमर्शनं क्रमेण सर्वेषाम् । चतसृषूपस्तुणीत इत्यादि । आग्नेयस्येन्द्रः प्राण इति कृत्वाऽऽश्रावयेत्यादि अर्धचे वसाहोमः । अन्यत्र शेषमानयति । ततो वषट्कृते होमः । ततो मनोता । ऐन्द्रामप्रचारः । अर्धचें वसाहोमः । शेषमन्यत्र । पुनर्मनोतादि । इन्द्राय वृप्णेहविषः । एवं प्रेष्य । अर्धर्चे वसाहोमः । शेषमन्यत्र । पुनर्मनोतादि । मरुग्यो गोर्हविषः । ऐन्द्रः प्राणः, देव