पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । १४५

श्रूयेते तानि कर्माणि वाजप्रसीयानि : विधत्ते-- द्वादश वाजप्रसीयानि जुहोति (ते. ब्रा० १-३-७) इत्यादि ॥ ६ ॥ ७ ॥

पुरस्ताद्यूपारोहणादेके समामनन्ति ॥ ८॥

एके शाखिनः परिपठन्ति यूपारोहणात्पुरस्ताद्वानप्रसर्वायं जुहुयादित्यर्थः ॥ ८ ॥

समहमायुषा सं मयाऽऽयुः समहं वर्चसा सं मया वर्चः समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोष इति यूपमारुह्य ग्रहान्प्रत्यवेक्षते ॥ ९॥

पत्नीमिति भाष्यकृत् ॥ १॥ .

तमाश्वत्थैरूषपुटैर्दीर्घवꣳशप्रबध्नै(द्धै)रास्यतो महर्त्विजः प्रतिदिशꣳ समर्पयन्ति । शीर्षत इत्येकेषाम् ॥ आसपुटैर्वैश्वमन्नाय त्वेति पुरस्तादध्वर्युः ॥ (ख० ५) । अन्नाद्याय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चाद्धोता। वाजजित्यायै त्वेत्युत्तरत उद्गाता ॥ १३.२.१० ॥

अश्वत्थपत्रेषु कृष्णमृत्तिका ऊषान्वोभयान्या वंशाने पुटाकृतिं कृत्वा तमारूढयजमानो(न), नन्ति । अन्नाय स्वेत्यादिभिमन्वैः । वैखानसंसूत्रे तु । तमेवमासपुटैनन्ति--. अन्नाय त्वेति पुरस्ताद्ध्वर्युः । अन्नाधाय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चादोता । वाजनित्यायै त्वेत्युत्तरत उद्गाता, इति ।। ऊपखननपासव आसास्तानश्च. स्थपत्रैः पुटीकृत्य तैरामपुटेप॒पादवरोहन्तं यजमान हन्युः । अत एवाऽऽपस्तम्ब आह'तमाश्वत्थैरासपुटैरूषपुटैरुभयैर्वा पैश्याः प्रतिदिशमर्पयन्ति । महविजो वा दीर्घवंशेषु प्रबध्य ' ( आप० श्री० १८.-१-१८) इति । यथासूत्रं मुखतो घन्ति, मुखं प्रत्य- भिनन्तीत्यर्थः ॥ १० ॥

होता(हन्ता)रं वितत्य बाहू अभिपर्यावर्तते ॥ ११॥

हन्तारं इन्चारमभिपर्यावर्तते इत्यापस्तम्बः । यजमान इति शेषः ॥ ११ ॥

इयं ते राण्मित्राय यन्त्रासि यमनो धर्ताऽसि धरुणः कृष्यै क्षेमाय रय्यै पोषायेति प्रत्यवरोहति ॥ १२ ॥

पाने प्र(प्रात्प्रोत्यवरोहति यनमानः । पत्न्या अध्यारोहणावरोहणे तूष्णीम्॥१२॥

अग्रेण यूपं बस्ताजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृ